Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 65
________________ श्राद्धजीतकल्पे सङ्ख्येयेष्वपि सकलविकलेषु-पञ्चेन्द्रियविकलेन्द्रियेषु उपलक्षणत्वात् पृथिव्यादिषु वोपहतेषु दशकमेवदशैव स्वप्रायश्चित्तानि दातव्यानि भवन्तीत्यर्थः ॥ ७० ॥ अथ विकलेन्द्रियानन्तकाय-पञ्चेन्द्रियविषयं प्रायश्चित्तमाह विगलाणां ते सहसाणाभोगे वि लहु गुरु-लहुग-गुरुगा । पंचेंदिए पमाया गुरु-लहुअ-गुरुग-छलहुगा ॥ ७१ ॥ व्याख्या-द्वित्रिचतुरिन्द्रियानन्तकायानां सहसाणाभोगे वि 'त्ति । अपिशब्दस्य वाऽर्थत्वात् सहसाकारादनाभोगाद्वा प्रत्येकं सट्टनाऽगाढपरिताप-गाढपरितापोपद्रवेषु यथासङख्यं 'लहु-गुरु-लहुग गुरुग'त्ति । लघुमास १ गुरुमोस १ चतुर्लघुध चतुर्गुरूणिधो स्युः। अत्र पञ्चेन्द्रियाणां प्रमादानिप्रयोजनं सट्टादिषु जातेषु 'गुरु-लहुअ-गुरुअ-छलहुग'त्ति । यथाक्रमं गुरुमास-चतुर्लघु-चतुगुरु-षडलघूनि प्रायश्चित्तानि स्युः । अत्र पञ्चेन्द्रियसङ्घः तदहर्जातमूषकगृहकोलिकादिविषयो द्रष्टव्य इति गाथार्थः।। पुनरपि प्रथमाणुव्रतविषयमेव विशेषमाह अगलिअजलछडण-हाण-पाण धुअ-ताव-घट्टणाइ छगुरु । पणकलं संखारय कोलिअ-कीडिअघराईसु ॥७२॥ व्याख्या-अगलितजलस्य छर्दने-त्यागे स्नाने-तेनैव शरीरस्य प्रक्षालने ‘पाण 'त्ति । तस्यैव पाने, धावने-तेनैव वस्त्रादिक्षालने, तापने-तस्यैवोष्णीकरणे । आदिशब्दादुत्कालनाधिश्रयणादिदानेऽपि च षड्गुरुकं प्रायश्चित्तं भवति । तथा 'पणकल्लं'ति । पञ्चाभक्तार्थाः पञ्चाचाम्लानि पञ्चकाशनानि पश्च पूर्वार्धाः पञ्च निर्विकृतिकानीत्येवंरूपं पञ्च कल्यं प्रायश्चित्तं भवति । केषु ? 'संखारयेत्यादि । 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवतीति' न्यायात् सङ्खारकस्य शोषे त्यागे वा, कोलिकानां-लूतानां कीटिकानामुपदेहिकादीनां च गृहादिषु भग्नेषु, आदिशब्दाद् शुषिरवृत्यादिषु स्नानजलोष्णावश्रावणादिवाहनेऽशोधितेन्धनस्याग्नौ क्षेपे शिरसि कङ्कतकक्षेपेऽपि च भूरिजीवविराधनासम्भवात् पञ्चकल्यं प्रायश्चित्तं भवतीत्यर्थः । केचित्तु चतुर्गुरुकमेवाहुः । अन्ये चैतेषु पर्युषित-गोमयस्थापनादिषु च षड्लघुकमेव । अन्ये पर्युषित [मेवं] गोमयस्थापने, पुजे वह्रिदाने, त्रससंसक्तधान्यदलने, मत्कुणितशयनीयाद्यातपमोचने, चटकमालकभङ्गे, बहुवारं सूतिभवने तत्करणे चेति । निद्धंधसव्यापारत्वेन बहुजीवविधिनातश्च पश्चकल्यं । तथा सूतिकायां ही घरटिकोदूखलचूल्हिकादीनामप्रमार्जने भिन्नमासं प्रायश्चित्तं प्रतिपादयन्तीति गाथार्थः ।।७२।। अथ बहूनां द्वीन्द्रियादीनामुपद्रवे प्रकारान्तरेण प्रायश्चित्तविधिमाह दु-ति-चउ-पणकल्ला वा बहुसु दु-ति-चउ-पणिदिएसु कमा । दसवार उवरि दस पण कल्ल संकप्प दप्पे अ ॥ ७३ ॥ व्याख्या-वाशब्दः प्रकारान्तरवाचकः । ततः प्रागेकेन्द्रियविषयप्रायश्चित्तप्रतिपादनावसरे 'दस पुरओ सव्वेहि वि दसग' मित्यत्र सर्वेषामपि पृथिव्यादीनां वक्ष्यमाणद्वीन्द्रियादीनां चैकाद्यसङ्ख्ये Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96