Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 70
________________ स्त्रीविशेषजमनाविषयं प्रायश्चित्तम् तपः स्यादिति हेतोः । मृदुस्वभावस्य तु पञ्चकल्यमेव 'जइ संतप्पइ तो पंचकल्लाणमिति वचनात् । तथा ‘सासंकमनाए' इत्यादि । साशङ्कयोद्धयोरपि लोकाज्ञाते सति पश्चकल्यम् । 'नाए' इत्यादि । ज्ञाते तु लोकप्रसिद्ध सति साशङ्कयोदयोरपि षड् पञ्च कल्यानि-स्वाध्यायलक्षयुतं पञ्चकल्यं तपो देयमित्यर्थः ।।८२॥ पूर्वोक्तमेवार्थ प्रकारान्तरेणाह पण कल्ला दस कल्ला अनाय नाए बलाओकारिस्स । खवणसयं तीसाइ व दसवेला जा उवरि मूलं ॥८३॥ व्याख्या-बलात्कारिणः पुरुषस्य स्त्रियो वा शीलभङ्गेऽज्ञाते-लोकाप्रसिद्ध सति पञ्च कल्यानि । ज्ञाते-लोकप्रसिद्धे च दश कल्यानि । खवणसयमित्यादि । वारंवारमेवं कुर्वतस्तु दशवेला-दश वारान् यावत् क्षपणशतं प्रायश्चित्तं भवति । पात्राद्यपेक्षया तु त्रिंशदादीनि वा चतुर्थानि भवन्ति । ' उवरि मूलं 'ति । दशवेलानामुपरि साशङ्कयोरपि मूलं प्रागुक्तलक्षणम् । मृद्वोः पश्चातापिनोश्च पुंखियोः पञ्च. कल्याणं वेति गाथार्थः ॥ ८३ ।। अथ स्त्रीविशेषगमनमधिकृत्य पुंसः प्रायश्चित्तमाह पणकल्ल वड्ढकुमारी-मयपइया ओहओ अ परदारे । छग्गुरुग दासियाइसु छल्लहु खत्तिअदिआईसु ॥ ८४ ॥ व्याख्या-बृहत्कुमारी प्रतीता, मृतपतिका-विधवा तासु तथौधतः-सामान्येन वक्ष्यमाणदासिकादिजघन्यादिपरस्त्रीविशेषं विना परदारेष्वज्ञातकुलाङ्गनासु गमने प्रत्येकं पञ्चकल्यम् । आदेशेन षड् गुरुकाः प्रायश्चित्तं भवति । विशेषतस्तु प्राह-'छग्गुरु' इत्यादि । दासिकादिषु जघन्यपरस्त्रीषु गमने षड्गुरुवः क्षत्रियाणी ब्राह्मण्यादिषु मध्यमपरदारेषु गमने च षडलघवश्च प्रायश्चित्तं भवतीति गाथार्थः ।।८४।। साम्प्रतमुत्तमपरस्त्रीगमनमधिकृत्य प्रायश्चित्तमाह ठकुरपिआइ छग्गुरु दस पण कल्ला अनायनाए वा । असिओ लक्खो मूलं पत्तं वाऽऽसज्ज पणकल्लं ॥८५ ॥ व्याख्या- ठक्करो-ग्रामाद्यधिपतिः तत्प्रियायां गमने, उत्तमपरदारगमने इत्येके । वाशब्दस्य चार्थत्वादज्ञाते-जनाप्रसिद्धे, ज्ञाते-जनप्रसिद्ध सति षड्गुरवो दश पञ्च कल्यानि च क्रमेण प्रायश्चित्तं भवन्ति । तथाहि-लोकरज्ञाते षड्गुरु, ज्ञाते पुनर्दश पञ्च कल्यानि क्षपणशतमित्यर्थः। 'असिओ लक्खो' इत्यादि । वाशब्द आदेशान्तरसूचकः । तत उत्तमपरकलत्रेण सह व्रतभङ्गेऽज्ञातेऽशीतिसहस्राधिकं स्वाध्यायलक्षं पञ्चचत्वारिंशत्कल्यानीत्यर्थः । ज्ञाते पुनर्मूलं प्रागुक्तलक्षणं च प्रायश्चित्तं भवति । 'पत्तं वे' त्यादि । वाशब्दोऽथवार्थोऽथवेदमन्यदादेशान्तरं तृतीयमित्यर्थः । तत उत्तमपात्रमासाद्य पञ्चकल्यमेव वा । अतिप्रसिद्धपात्रस्य तु मूलस्याप्यापत्तौ पञ्चकल्यमेव प्रायश्चित्तं प्रदेयम् न मूलमित्याप्तोपदेशः । अन्ये तु स्त्रियं प्रत्येवमाहुः-' सीलस्स बला भंगे लक्ख इन्थीइ सपणकल्लाणमि 'ति गाथार्थः ।। ८५ ।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgaPage Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96