Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 71
________________ श्राद्धजीतकल्पे साम्प्रतमत्रैव विशेषमाह पणकल्लमनाए तीस-कल्ल नाए अछिप्पजाईसु । कल्लमणुतावि किवे तिव्वभिलासे य पणकल्लं ॥ ८६ ॥ व्याख्या-' अछिप्पजाईसु 'त्ति । अस्पृश्यजातिषु मातङ्गयादिपरस्त्रीषु गमनेऽज्ञाते-जनाप्रसिद्ध पञ्चकल्याणं, ज्ञाते तु त्रिंशत्कल्यानि-स्वाध्यायलक्षयुतं पश्चकल्याणमित्यर्थः । अन्ये तु केवलं स्वाध्यायलक्षमेवाहुः पञ्चाशत्क्षपणोनीत्यर्थः । 'कल्लमणुतावि कीवे 'त्ति । 'व्याख्यानतो विशेषार्थप्रतिपत्ति 'रिति न्यायात् क्लीबे-क्लोबसेवनायां-नपुंसकसेवनायर्या अनुतापे-पश्चात्तापे सति कल्यम् । तथा'तिव्वमिलासे य पणकल्ल 'मित्यादि । तीव्राभिलाषे तु पञ्चकल्यं प्रायश्चित्तं पुरुषस्य स्यादिति । यद्वाअनुतापिनः-पश्चात्तापवतः क्लीबस्य-नपुंसकस्य कल्यम् । तीव्रामिलाषे-तीव्रानुरागात् क्लिष्टाध्यवसायस्य तु पञ्चकल्यं, चशब्दात् पुंस्त्रियोरपि हस्तभङ्गयां-हस्तकर्मादिकरणे चतुर्लघुध । उभयोरपि गाढाऽऽकाङ्क्षायां सरागभाषायां च गुरोरालोचनं पुनरकरणेन च मिथ्यादुःकृतदानमिति । स्वप्ने नियमभङ्गे नमस्काराधिकचतर्विशतिस्तवचतुष्ककायोत्सर्गः कार्य इति । 'सयमट्ठसयं चउत्थ 'मिति वचनादिति गाथार्थः ।।८।। अथ पञ्चमाणुव्रतविषयं प्रायश्चित्तविधिमाह गुरु-लहुग-गुरुग तिविहे परिग्गहे उत्तमे व पणकल्लं । एगे असीअ लक्खं उविच्च भंगे इमं अन्ने ॥८७ ॥ व्याख्या-द्रव्यादिविषये परिग्रहे जघन्यमध्यमोत्कृष्टभेदात्त्रिविधेऽपि यथाक्रमं गुरुचतुर्लघुचतुर्गुरुकाः प्रायश्चित्तं भवति । यदाह-' मोसाइसु मेहुणवज्जिएसु' इत्यादि । इह च पाठान्तरम् ' लहुगुरु-चउलह तिविहे परिग्गहे ' इति । तत्रेत्थं व्याख्या-त्रिविधेऽपि जघन्यमध्यमोत्कृष्टरूपे द्रव्यादिविषये परिग्रहे क्रमेण लघुमास-गुरुमास-चतुलघुकाः प्रायश्चित्तं भवति । उत्तमपरिग्रहनियमभङ्गविषये आदेशान्तरद्वयमाह- उत्तमे वे 'त्यादि । वाशब्द आदेशान्तरसूचनार्थः। तत उत्तमे परिग्रहे आदेशेन पञ्च कल्यं प्रायश्चित्तं भवति । 'एगे' इत्यादि । एके पुनराचार्या उत्कृष्टपरिग्रहनियमभङ्गे अशीतिसहस्राधिक स्वाध्यायलक्षमाहुः । 'उविच्च भङ्ग ' इत्यादि । अन्ये पुनराचार्या इदमशीतिसहस्राधिकस्वाध्यायलक्षदानरूपं प्रायश्चित्तमुपेत्य-आकुट यादिना परिग्रहव्रतभड़े प्राहुः । अत्रापि दर्पण परिग्रहवतभङ्गे पञ्चकल्याणं प्रायश्चित्तम् । · अहवा मोसादत्ते' इत्यादि वचनादिति गाथार्थः ।। ८७ ।। अथ गुणव्रतत्रयविषयं प्रायश्चित्तविधिमाह दिसिवय अणत्थभंगे चउगुरु निकारणं च निसिभत्ते । कोहे पक्वाईए पगाढमायामयाईसु ॥८८ ॥ व्याख्या-दिग्त्रतविषयेषु पञ्चस्वप्यतिचारेषु तथा अपध्यान-प्रमादाचरिता-ऽधिकरणप्रदान पापोपदेशरूपचतुर्विधोनर्थदण्डविरमणव्रतभड़े च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवति । तथा भोगोपभोग Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96