Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 59
________________ श्राद्धजीतकल्पे माहारलौल्यतः प्रलोकनाय गच्छति । तथा संस्तवं द्विविधं-मातापित्रादिसम्बन्धयोजनारूपं पूर्वसंस्तवं श्वश्वादिनात्रक-योजनारूपं पश्चात्संस्तवं च करोति । उक्तः पावस्थः । साम्प्रतमवसन्नमाह 'ओसन्नो वि अ दुविहो सव्वे देसे य तत्थ सव्वंमि । उडुबद्धपीढफलगो ठविअगभोई य मुणेयव्वो' ॥ १ ॥ व्याख्या-अवसन्नोऽपि च द्विविधो ज्ञातव्यो सर्वतो देशतश्च । तत्र सर्वतोऽवसन्नो य ऋतुबद्धपीठफलक:-ऋतुबद्धकालेऽपि वर्षाकालं विनैवेत्यर्थः पीठफलकसेवकः। · अबद्धपीठफलगो' इति पाठे तु यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति, यो वा नित्यावस्तृत. संस्तारकः सोऽबद्धपीठफलकः । तथा स्थापितकभोजो-स्थापनादोषदुष्टप्राभृतिकाभोजो । देशावसन्नमाह ___ 'आवस्सय-सन्हाए पडिलेहण-झाण-मिक्ख अमत्त । आगमणे निग्गमणे ठाणे अ निसीअण तुय?' ॥ २ ॥ व्याख्या-आवश्यकादिष्ववसीदन् देशतोऽवसन इत्योघतो गाथाक्षरयोजना । भावाथस्त्वयं-आवश्यकमनियतकालं करोति, यदि वा हीनं-हीनकायोत्सर्गादिकरणात् । अतिरिक्तं वा अनुप्रेक्षार्थमधिकाधिककायोत्सर्गकरणात् । अथवा देवसिके आवश्यके कर्त्तव्यं तद् रात्रिके करोति, रात्रिके कर्तव्य देवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणम् अर्थपौरुषीलक्षणं वा, कुरुघ्वमिति गुरुणोक्ते गुरुसंमुखीभूय किश्चिदनिष्टं जल्पित्वा करोति न करोति वा, सर्वथा विपरीतं करोति कालिकवेलायाम् उत्कालिकमुत्कालिकवेलायां कालिकं वा । तथा प्रतिलेखनामपि वस्त्रादीनामावर्त्तनादिमिरूनामतिरिक्तां वा विपरीतां वा दोषेर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति । तथा भिक्षां न हिण्डते । गुरुणा वा भिक्षां नियुक्तो गुरुसंमुख किश्चिदनिष्टं जल्पित्वा हिण्डते । तथा भक्तार्थ-भक्तविषयं प्रयोजनं सम्यग् न करोति । किमुक्तं भवति-न मण्डल्यां समुद्दिशति । काकशुगौलादिभक्षितं वा करोति । अन्ये तु व्याचक्षते 'अभसट्ट 'त्ति । अभक्तार्थप्रहणं सकलप्रत्याख्यानोपलक्षणं । ततोऽयमर्थःप्रत्याख्यानं न करोति, गुरुणा वा भणितो गुरुसंमुखं किश्चिदनिष्टमुक्त्वा करोति । आगमे नैषेधिकी न करोति निर्गमने आवश्यकी च । स्थाने-ऊर्ध्वस्थाने निषीदने-उपवेशने त्वग्वत्तने-शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणां करोति । नापि प्रमार्जनों करोति । अथवा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे करोति । गतोऽवसन्नः। साम्प्रतं कुशीलमाह 'तिविहो होइ कुसीलो नाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पण्णत्तो वीयरागेहि ॥ १ ॥ व्याख्या-त्रिविधः-त्रिप्रकारो भवति कुशीलः। कथमित्याह-ज्ञाने तथा दर्शने चारित्रे च । एष कुशीलोऽवन्दनीयः प्रज्ञप्तो-भणितो वीतरागैः-तीर्थकृद्धिः । प्रकारत्रयमेवाह ___ 'नाणे नाणायारं जो उ विराहेइ कालमाईयं । दसणे दंसणायारं चरणकुसीलो इमो होइ' ॥ २ ॥ व्याख्या-यो ज्ञानाचारं कालादिकं — काले विणए ' इत्यादिरूपं विराधयति स ज्ञाने-ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने-दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणलक्षणो भवति । तमेवाह ___ 'कोउअ भूईकम्मे पसिणापसिणे निमित्तमाजीवी। कक्ककुरुयाइ लक्खण उवजीवइ विज्जमंताई' ॥ ३ ॥ व्याख्या-कौतुकं नाम आश्चयं । यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निःकाशयति Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96