Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 57
________________ श्राद्धजीतकल्पे ऽऽधभेदः प्रकटकरणरूपः, परभावक्रीतं, स्वग्रामाभ्याहृतं, दर्दरोद्भिन्नं, जघन्यमालापहृतं. यावदर्थिकमिश्ररूपोऽध्यवपूरकाद्यभेदः, सेटिकादि-पृथ्वीकायम्रक्षितं, उदकार्द्ररूपमप्कायम्रक्षितं, प्रत्येकवनस्पतिम्र. क्षितं, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्त-पिहित-संहृतानि, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्त-पिहित-संहृतानि, दायकदोषमाश्रित्य कर्त्तयन्ती, लोढयन्ती, पिञ्जयन्ती, विकीर्णयन्ती, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामगाढपरितापं कुर्वाणा द्वित्रिचतुरिन्द्रियानन्तकायवनस्पतीनां सङ्घद्रं कुर्वाणा च । मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पत्युन्मिश्र, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिपरिणतं, सचित्तपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दित, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु निरन्तरछर्दितं च गृह्यते । तथा 'पणग ठविए 'त्ति । चिरस्थापनायां प्राग लघुमासस्योक्तत्वाद् अत्र स्थापनाशब्देनेत्वरस्थापना गृह्यते । तत इत्वरस्थापनादोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं मिनमासः प्रायश्चितं भवतीति । अत्राऽप्युपलक्षणत्वात् सूक्ष्मप्राभृतिका, सरजस्कम्रक्षितं, सस्निग्धरूपमप्कायप्रक्षित, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्तपिहितसंहृतानि दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सबटुं कुर्वाणा प्रत्येकानन्तबीजोन्मिश्ररूपं बीजोन्मिश्र, प्रत्येकानन्तबीजाऽपरिणतरूपं बोजाऽपरिणतं, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दितं, प्रत्येकानन्तबीजेषु निरन्तर परम्परछर्दित, मिश्रानन्तकायपरम्परछर्दितं च गृह्यते । ततः सूक्ष्मप्रामृतिकादिदोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं भिन्नमासः प्रायश्चित्तं भवतीति । तथा प्रथममेषणादोषं शङ्कितमाश्रित्य दायकः साधोरन्नपानादि ददानो यं यं दोष शङ्कते प्रागुक्ततत्तदोषप्रायश्चितवान् भवति । तथाऽनेक-द्वीन्द्रियायुपघातं कुर्वन्त्यास्तु दात्र्या यावतां द्वीन्द्रियादीनामुपघातः कृतः तावन्ति स्वप्रायश्चित्तानि भवन्ति । अयमर्थः-यद् यस्य द्वीन्द्रियादेरुपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति तस्य स्वप्रायश्चित्तमुच्यते । तच्चकस्य द्वीन्द्रियादेरुपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोरुपघाते द्वे स्वप्रायश्चित्ते भवतः । त्रयाणामुपपाते त्रीणि तानि भवन्ति । यावद्दशानामुपघाते दश स्वप्रायश्चित्तानि स्युः । ततः परमेकादशादिषु बहुष्वपि यावदसङ्ख्येयेष्वपि द्वीन्द्रियादिषूपहतेषु दशैव स्वप्रायश्चित्तानि भवन्तीति । यदुक्तं सामाचार्याम् 'एगाइदसतेसु एगाइदसतयं सपच्छित्तं । तेण परं दसगं चिय बहुएसु वि सगलविगलेसु ॥२॥ अयमाधाकर्मादिषु प्रायश्चित्तविधिः 'गुरुग-जईणमगाढे' इत्यादिगाथासंसूचितो यतिजीत-कल्पोक्तरीत्या प्राहकसाध्वनुसारेणैव दायकस्यापि श्राद्वादेरुक्तोऽन्यत्र क्वापि तद्विधेः पृथगदर्शनादिति गाथार्थः ॥ अथ साधोः पार्खाल्लेखशालाद्यात्मीयकार्यकारणे श्राद्धस्य प्रायश्चित्तं पादोनगाथाद्वयेन निरूपयति साहहिं लेहसालं चिगिच्छ-चप्पुडिअ-रक्खडी-खडिअं । सिसुकीलण-घरकम्मं कयविक्कयमेसिमेहिं वा ॥ ६०॥ कंकणिअ-कंडगाई गणत्तिआहारपोअणाइ तहा । कारिते पणकलं लहू तदभंगपयधुवणे ॥ ६१ ॥ व्याख्या-साधुमिर्लेखशालां-शिशुपाठनरूपां कारिते ‘पणकल्ल' मित्यस्य द्वितीयगाथातृतीयपदवर्तिनः सर्वत्र योगात यदि श्राद्धः कारयति तदा पञ्चकल्यं प्रायश्चित्तं भवति । एवं 'चिगिच्छत्ति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96