Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 56
________________ अशुद्धान्नपानादि ददानस्य प्रायश्चित्तम् मीलिताः सप्तचत्वारिंशद् भवन्ति । इत्युक्तमाधाकर्मादिदोषस्वरूपम् । अर्थतेषु षोडशोत्पादनादोषाणां [ चतुर्णा ] ग्रासैषणादोषाणां च साधुप्रभवत्वात् तेषु न श्राद्धानां प्रायश्चित्तसम्भवः । षोडशोद्गमदोषेषु गृहस्थप्रभवत्वात् सर्वेषु एषणादोषाणां तूभयप्रभवत्वाद् येषु श्राद्धानां प्रार्याश्चत्तसम्भवो यथायोग तेषु तेषु सक्षेपेण प्रायश्चित्तमतिदिशति गुरुग जईणमगाढे दिते कम्माइ लहुग मीसाई। / अझोयराइ गुरुगो लहु उद्दिसिए पणग ठविए ॥4 व्याख्या-' गुरुग जइणमगाढे दिते कम्माइ 'त्ति । यतीनामगाई तथाविधग्लानादिगाल कार्याभावे आधाकादि-गुणे गुणवदुपचारादाधाकर्मादिदोषवदन्नपानादि ददानमा पन्तस्य चतुर्गुलथे प्रायश्चित्तं भवतीति । एवमग्रेऽपि भावना कार्या । अत्रादिशब्दात कर्मसमुद्देशाकमेदवयं, पाखण्डिमिश्रजातयतिमिश्रजातरूपमिश्रजातान्त्यभेदद्वयं, बादरप्राभृतिका, सप्रत्यपायपरग्रामाभ्याहृतम्, अचित्तगुरुद्रव्यपिहितम् , अनन्तकायानन्तरनिक्षिप्तपिहितसंहृतानि तथा दायकदोषमाश्रित्य प्रगलत्पादुकारूढौ द्वित्रिचतुरिन्द्रियानन्तकायोपद्रवं कुर्वाणा, पन्चेन्द्रियोपद्रवं कुर्वाणायाः शास्त्रान्तरे षड्लघुकस्योक्तत्वात पञ्चेन्द्रियमाढपरितापं कुर्वाणाच, सचित्तानन्तकायोन्मिश्रम् , अनन्तकायाऽपरिणतम् , अनन्तकायनिरन्तर छर्दितं च गृह्यते । ततः कर्मोद्देशादि दोषवदन्नपानाद्यपि ददानस्य श्राद्धस्य चतुर्गुरु प्रायश्चित्तं भवतीति भावः तथा ' लहुग मीसाइ 'त्ति । मिश्रजातेऽन्त्यभेदद्वये चतुर्गुरुप्रायश्चित्तस्योक्तत्वात शेषयावदर्थिकमिश्रजातादिदोषवदन्नपानादि ददानस्य श्राद्धस्य चतुर्लघु प्रायश्चित्तं भवति । अत्राप्यादिशब्देन कर्मोद्देशं, प्रकाशकरणरूपप्रादुष्करणान्त्यभेदं क्रीताऽऽद्यभेदत्रयं, लौकिकषामित्य-परावर्तिते, निष्प्रत्यपायपरग्रामाभ्याहृतं, लिप्तोद्भिन्ने, कपाटोद्भिन्ने, उत्कृष्टमालापहृतं, त्रिविधमप्याच्छेद्यं, त्रिविधमप्यनिसृष्टं, निर्मिश्रकर्दम क्षितम्, अप्कायम्रक्षितभेदौ पुरःकर्मपश्चात्कर्मणी, गर्हिताचित्तम्रक्षितं, अगर्हितसंसक्ताचित्तम्रक्षितं, तेजोवायुप्रत्येकवनस्पति-त्रसकायनिरन्तरनिक्षिप्तपिहितसंहृतोन्मिश्राणि तथा दायकदोषमाश्रित्य स्थविरादय आद्याः सप्तविंशतिर्दायकाः, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामुपद्रवं कुर्वाणा, द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनां गाढपरितापं कुर्वाणा, पञ्चेन्द्रियस्यागाढपरितापं कुर्वाणा दात्री च, पृथिव्यादिष्वनन्तरछर्दितं च गृह्यन्ते । तथा-' अज्झोअराइ गुरुगो'त्ति । अध्यवपूरकाद्यभेदे लघुमासस्याभिधास्यमानत्वादन्त्यभेदद्वयं ग्राह्यम् । ततोऽध्यवपूरकान्त्यभेदद्वयादिदोषवदन्नपानादि ददानस्य श्राद्धस्य गुरुकं-गुरुमासः ॥ प्रायश्चित्तं भवति । अत्र पुनरादिशब्दतश्चतुर्विधं कृतोद्देशिकं, मध्यमं मालापहृतम् , अनन्तकायपरम्परनिक्षिप्त-पिहित-संहृतोन्मिश्रानन्तकायनिरन्तरनिक्षिप्त-पिहित-संहृतानि दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां गाढपरितापं कुर्वाणा द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनामगाढपरितापं कुर्वाणा पञ्चेन्द्रि याणां सङ्घदं कुर्वाणा च मिश्रानन्तकायोन्मिश्रम अनन्तकायपरम्परछर्दितं, मिश्रानन्तकायनिरन्तरछर्दितं च गृह्यन्ते । तथा — लहु उद्दिसिए 'त्ति । कृतोद्देशकर्मोद्देशादिषु प्रागपि प्रायश्चित्तस्याभिहितत्वादत्रौ द्दशिकशब्देनोद्दिष्टो द्देशाद्यौ देशिकाद्यभेदचतुष्टयं गृह्यते । ततश्च उद्दिष्टोद्देशादिभेदचतुष्टयदोषवदन्नपानादि ददानस्प श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति । अत्रोपलक्षणत्वादुपकरणपूतिः, विरस्थापना प्रादुष्करणा Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96