Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 61
________________ ५४ श्राद्धजीतकल्पे प्रतिबद्धः । तथा स्त्रीषु गृहिषु प्रतिबद्धः स सक्लिष्टः संसक्तो ज्ञातव्यः । व्यावर्णितः संसक्तः । इदानों यथाछन्दमाह _ 'उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो। एसो य अहाछन्दो इच्छाछन्दो य एगट्ठा' ॥१॥ व्याख्या-सूत्रादूर्ध्वमुत्सूत्रम् । तदाचरन्-प्रतिसेवमानः तदेव यः परेभ्यः प्रज्ञापयन् वर्त्तते । एष यथाछन्दोऽभिधीयते । इच्छाछन्द इत्येकार्थः । यथाछन्द इच्छाछन्दश्चेति तस्य नामद्वयं भवतीत्यर्थः । उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति 'उत्सुत्तमणुवइटुं सच्छन्दविगप्पियं अणणुवाई । परतत्तिपवत्तो तितिणो अ एसो अहाछन्दो' ॥२॥ व्याख्या-उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टम् । तत्र या सूरिपरम्परागता सामाचारी । यथानागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्ग कुर्वन्ति । चारणानां वन्दनके 'कथमपी'त्युच्यते इत्यादि । साऽप्यङ्गोपाङ्गेषु नोपदिष्टेति तामप्यनुपदिष्टां शङ्केत । ततोऽनुपदिष्टमाह । स्वच्छन्देन-स्वामिप्रायेण विकल्पितं स्वेच्छाकल्पितमित्यर्थः । अत एवाननुपाति-सिद्धान्तेन सहाघटमानकम् । न केवलमुन्सूत्रमाचरन् प्रज्ञापर्यैश्च यथाछन्दः । किन्तु यः परतप्तिषु-गृहस्थप्रयोजनेषु करणकारणानुमतिमिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिन्तिणो नाम य स्वल्पेऽपि केनचित् साधुनाऽपराद्धेऽनवरतं पुनः पुनः झपनास्ते। अयमेवंरूपो यथाछन्दः । तथा 'सच्छंदमइविगप्पिय किंची सुहसाय-विगइपडिबद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाछंद' ॥ ३ ॥ व्याख्या-स्वच्छन्दमतिविकल्पितं किञ्चित् तच्च लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति । तेन च सुखास्वादनेन तत्रैव रतिमातिष्ठते । तथा चाह- सुहसाय ' सुखास्वादे विकृतौ प्रतिबद्धः । तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । अभीष्टरसांचाहारान् प्रतिलभते वसत्यादिकं च विशिष्टं । ततः स आत्मनः सभ्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गारवैः-ऋद्धिरससातलक्षणर्माद्यति । य एवम्भूतस्तं यथाछन्द जानीहीति । उक्तं यथाच्छन्दस्वरूपम् । ततः उक्तं पार्श्वस्थादीनां स्वरूपमित्यलं प्रसङ्गनेति गाथार्थः ॥६२।। कन्नाहल-संडविवाहमाइ लहुगा लहू ढिउल्लीणं । बलि-पिंड-सद्ध-वारसि-खण-नमणाइसु चउगुरुल्ने ॥ ६३ ॥ व्याख्या-कन्याफले-कन्याफलग्रहणे, शण्डविवाहे, आदिशब्दात्तरुरोपणबलिपिण्डश्राद्धादावपि 'लहुग'त्ति । लघुकाः-चतुर्लघुप्रायश्चित्तं भवतीत्यर्थः । तथा 'ढिउल्लीणं'ति । ढिउल्लिकानां-वस्त्रखण्डनिर्मितपुत्तलिकानां तु विवाहे क्रीडार्थं वा करणे लघुमासः १। मतान्तरेण त्वत्रापि चतुर्लघव एव । अत्र मतान्तरमाह-तथा बलिविधाने, नदीकुण्डादिषु पित्रादीनां पिण्डप्रदाने, श्रोद्धविधाने, द्वादशीभरणे, क्षणकरणे, नमने-महामात्रादिकुदेवताप्रणामकरणे, आदिशब्दान्मिध्यादृष्टितीर्थेषु स्नानादिष्वपि च 'चउगुरु 'त्ति । चतुर्गुरुवा प्रायश्चित्तं भवतीत्यन्ये केचनाचार्याः प्रतिपादयन्तीति गाथाक्षरार्थः ॥ ६३ ॥ अथ जिनप्रतिमाशातनाविषयं प्रायश्चित्तं निरूपयति Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96