Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 60
________________ पार्श्वस्थादीनां स्वरूपम् नासिकया वा । तथा मुखादग्निं निःकाशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते एतत्कौतुकम् । उक्तं च सोहग्गाइनिमित्तं परेसिं ण्हवणाइ कोउयं भणिय'मिति । तथा भूत्यादिकर्म नाम यत् वरितादीनाममिमन्त्रितेन क्षारादिना रक्षाकरणम् । 'जरियाइभूइदाणं भूईकम्मं विणिहिटुं' इतिवचनात् । प्रभाप्रश्नं नाम यत् स्वप्नविद्यादिमिः शिष्टस्यान्येभ्यः कथनम् । उक्तं च 'सुविणगविज्जाकहियं आइंखिणिघंटियाइकहिअं वा । जं सासइ अण्णेसिं पसिणापसिणं हवइ एअं' ॥ निमित्तमतीतादिभावकथनम् । तथा आजोवो नाम आजीविका । स च जात्यादिभेदः सप्तप्रकारः। तदुक्तं ‘जाईकुले गणे अ कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजोव उवजीवइ जो कुसीलो उ ।। तत्र जात्यादयः प्रागुक्तस्वरूपाः। तपःश्रुते प्रतीते। एनं सप्तविधमाजीवं य उपजीवति-जीवनार्थमाश्रयते । तद्यथा-'जाति कुलं वात्मीयं लोकेभ्यः कथयति, येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्धथा मल्लगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वं, कर्म-शिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति । तपस उपजीवना-तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथयति । श्रुतस्योपजीवनाबहुश्रुतोऽहमिति जनेभ्यः कथयति । इति सप्तविध आजीवनाकुशलः । तथा कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनमथवा आत्मनः शरीरस्य देशतः सर्वतो वा रोधादिमिरुद्वर्त्तनम् । तथा कुरुका-देशतः सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं-पुरुषलक्षणादि, विद्यामन्त्रौ प्रसिद्धौ । आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः । एतानि य उपजीवति स चरणकुशीलो निरूपितः कुशीलः । अधुना संसक्तप्ररूपणामाह _ 'गोभत्तालंदा विव बहुरूअ नडुव्ब एलगो चेव । संसत्तो सो दुविहो असंकिलिट्ठो य इयरो वा' ॥ १ ॥ व्याख्या- गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्दः । अलिन्दो भाजनविशेषः स इव । किमुक्तं भवति-यथा अलिन्दो गोभक्तं-कुकुसा ओदनम्-अवश्रावणमित्यादिसर्वमेकत्र मिलितं भवतीति संसक्त उच्यते । एवं यः पार्श्वस्थादिषु मिलितः पार्श्वग्थसदृशो भवति, संविग्नेषु मिलितः संविनसदृशः संसक्त इति । यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति । एवं बहुरूप नट इव सोऽपि पार्श्वस्थादिमिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविनरूपमिति । यदि वा यथा-एडको लाक्षारसे निमग्नः सन् लोहितवर्णों भवति, गुलिकाकुण्डनिममः सन् नीलवर्ण इत्यादि । स च द्विविधो-द्विप्रकारः । तद्यथा-असलिष्ट इतरश्च सक्लिष्टः । तत्रासक्लिष्टमाह __'पासत्थ अहाछंदे कुशील ओसन्न पप्प एमेव । संसत्तो पियघन्मेसु चेव इणमो असंकिलिट्ठो' ॥२॥ व्याख्या-पार्श्वस्थे मिलितः पार्श्वस्थः, यथाछन्दे यथाछन्दः, कुशीले कुशीलः, अवसन्नेऽवसन्नः, संसक्ते संसक्तः, तथा प्रियधर्मसु मिलितः प्रियधर्मा । एष असतिष्टः संसक्तो ज्ञातव्यः । सक्लिष्टमाह _ 'पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो। इत्थिगिहि संकिलिट्ठो संसत्तो सो उ नायव्वो' ॥ ३ ।। व्याख्या --य खलु पञ्चसु आश्रयेसु हिसादिषु प्रवृत्तः, तथा त्रिमिर्गारवैऋद्विरससातलक्षणैः Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96