Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 19
________________ श्राद्धजीतकल्पे थिरकरणा पुण थेरो पबत्तिवावारिस अत्थेसु । जे जत्थ सीयइ जई संतबलो तं पचोएइ ॥ १ ॥ व्याख्या - प्रवर्त्तिव्या पारितेष्वर्थेषु यो यत्र यतिः सीदति, सद्विद्यमानं बलं यस्य स सद्बलस्तथाभूतः सन् यस्तं प्रचोदयति-प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविर इति । उक्तं स्थविरस्य स्वरूपम् । अधुना गीतार्थस्वरूपमाह - १२ उद्धावणा-पहावण-खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गीयत्था एरिसा हुति ॥ १ ॥ व्याख्या—उत्-प्राबल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति - तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण सन्दिष्टोऽसन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्धया करणमुद्धावनं, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणा - क्षेत्रप्रत्युपेक्षणा उपघेरुत्पादनम् एतासु येऽविषादिनो - विषादं न गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा - एवंविधा गीतार्था - गणावच्छेदिन इत्यर्थः । इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १२ ॥ अथ कथमिति चतुर्थं द्वारमभिधित्सुराह जह बालो जंपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुको वा ॥ १३ ॥ व्याख्या—यथा-येन प्रकारेण बालो - ऽव्यक्तचैतन्यः शिशुर्मातापित्रोः पुरस्ताज्जल्पन् कार्यंसभ्यं कथनार्द्दम्, अकार्यं चासभ्यं - कथनानर्हमपि ऋजुकं - लज्जाभयादिमिरवत्रीकृतं भणति - व्याहरति । ततः किमित्याह-' तं 'ति । तत्कार्यं च स्वकृतं ' तह 'ति । एवकारस्य गम्यमानत्वात् तथैव - बालकप्रकारेणैवालोचयेत्-प्रकटयेदालोचक इति गम्यते । किंविशिष्टः सन् ? इत्याह-मायामदविप्रमुक्तश्चशब्दालब्जादिरहितश्चेति गाथार्थः ॥ किं कृत्वाऽऽलोचयेद् ? इत्याह गंतूण गुरुसमीवं काऊणं अंजलि विणयमूलं । जह अप्पणो तह परे जाणाविजत्ति उवएसो ॥ १४ ॥ व्याख्या- - गुरुसमीपं गत्वा कृत्वा च विनयमूलं - विनयपूर्वकमञ्जलिं 'जह अप्पणो 'ति । विभक्तिव्यत्ययादात्मना यथा जानाति तथा परान् गुरूनपि ज्ञापयेत् स्वकीयदुष्कृतानीति गम्यते । इत्युपदेशस्तीर्थकरगणधरादीनामिति गाथार्थः ॥ १४ ॥ अथ सम्यग् प्रायश्चित्तदानविधिज्ञेनापि परसमक्षमेवालोचनीयमिति दृष्टान्तद्वारेणाह - जह सुकुसलो वि विज्जो अत्तस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्सवि सल्लुद्धरणं परसगासे ॥ १५ ॥ For Private & Personal Use Only Jain Education International 2010_05 www.jainelibrary.orgPage Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96