Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 29
________________ श्राद्धजीतकल्पे · अविय 'त्ति। अपिचेति समुच्चयार्थः । शल्यस्य अनुद्धतस्य सर्वेभ्योऽप्यनर्थकारिवस्तुभ्योऽधिकतां गाथाद्वयेनाह नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पुव्व पमाइणो कुद्धो ॥३६ ॥ जं कुणइ भावसल्लं अणुद्धिअं इत्थ सव्वदुहमूलं । दुल्लहबोहीअतं अणंतसंसारियत्तं च ॥३७॥ व्याख्या-नैव तदर्थजातमात्मनः करोतीति सम्बन्धः । शस्त्रं-खड्गादि, विष-द्विधा स्थावर कालकूटादि, जङ्गमं सर्पादि दुष्प्रयुक्तो वा-द्रव्यक्षेत्रकालाधनौचित्येन व्यापारितो मन्त्रपूजोपहारादिना विराधितो वैतालो-दुष्टव्यन्तरः , यन्त्र-शतघ्न्यादि दुष्प्रयुक्तं-विरुद्धप्रकारव्यापारितं सर्पो वा प्रमादिनःकुतूहलादिना कलिश्चादिघट्टनप्रमादवतः क्रुद्धः सन् ‘ज कुणइ 'त्ति । यदनर्थजातं करोति भावशल्यंमिथ्यादर्शनादि अनुद्धतमनिःकाशितम् ‘इत्थ' इह संसारे सर्वदुःखाना-शारीरमानसाद्यशेषकष्टानां मूलंमलहेतुः । किंरूपं तदनर्थजातं ? इत्याह-दुर्लभबोधिकत्वम् । 'बोहीयत्तमि 'त्यत्रार्षत्वादिकारस्य ईकारः । तत एवानन्तसंसारिकत्वं चेति गाथाद्वयार्थः ।। ३६-३७ ।। अतस्तत्त्वज्ञा यत् कुन्ति, तदाह -- तो उद्धरंति गारवरहिआ मूलं पुणब्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥३८॥ व्याख्या-तत्-तस्माद्धेतोरुद्धरन्ति-हृदयान्निःकाशयन्ति गारवरहिता-ऋद्धयादिगारववियुक्ता विवेकिन इति गम्यते । मूल-कन्दभूतं पुनर्भवलतानां-पुनर्भवः-संसारः स एव लता-वल्लयः तासां बहुवचनमुपमेयगुपिलत्वख्यापनार्थं, किं तदित्याह-मिथ्यादर्शनमेव शल्यं-तीव्रतरदुःखहेतुत्वात् मिथ्यादशनशल्यम् । तथा मायाशल्यं-माययाऽनुद्धतमतिचारजातमुपचारान्मायोच्यते, ततो मायैव शल्य मायाशल्यमतिचाराणां गुरोः पुरतोऽप्रकाशनरूपं भावशल्यमित्यर्थः । तथा ' निदानमिति । निदानशल्य-विषयाभिष्वङ्गादिना प्रार्थनारूपम् । तच्च नवधा तथाच __निव १ सिटि २ इथि ३ पुरिसे ४ परपविआरे सुरे ५ सपरिआरे ६ । अपरयसुर ७ दरिदे ८ सड्ढे ९ हुन्जा नव निआणा ।। १ ।। इति गाथार्थः ।। ३८ ॥ शल्योद्धारश्च गीतार्थादिगुणान्वितस्य गुरोरन्तिके विधेयः । स च गुरुश्चेदासन्नो नोऽवाप्यते तदा तन्निमित्त सप्त योजनशतान्यपि यावद् गन्तव्यमिति पूर्वमुक्तम् । तथा गच्छतश्चेदायुःपरिसमाप्तिर्भवेत्तदा किमित्याह आलोअणापरिणओ सम्मं संपठिओ गुरुसगासे । जइ अंतरावि कालं करिज्ज आराहगो तहवि ॥ ३९ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96