Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 27
________________ श्राद्धजोतकल्पे आलोचना गुरुं विना न स्यात् निंदा तु गुरुं विनापि स्यादिति तद्व्यवच्छेदार्थमाह- कस्मिन् ? ' गुरुसगासे 'ति । गुरुसकाशे-गुरोः पुरतः । एवंविधः पुमान् भवत्यतिरेकलघुकोऽतिशयेन लाघववान् भवति पापभारापगमादिति शेषः । क इव ? अपहृतभार इव भारवाहकः । यथा कोऽपि भारवाहकः पुमान् लोहादिभारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते । तथाऽऽलोचकोऽप्यालोचितातिचार इतिगाथार्थः ॥ २८ ॥ २० अतः सर्वाण्यपि पापानि निर्मायतयाऽऽलोचनीयानि शुद्धचर्थिना । यतो मायाविनः कुतो शुद्धिर्न भवतीत्याह कहेहि सव्वं जो वृत्तो जाणमाणो निगूहई | न तस्स दिति पच्छित्तं बिंति अन्नत्थ सोहय ॥ २९ ॥ व्याख्या- ' कहे हि सव्वं 'ति । कथय सर्वमालोच्यजातं ' जो वृत्तो 'ति । इति यः कश्चिन्मन्दबुद्धिरालोचनाग्राही उक्तः सन् जानन् - स्मरन्नपि स्वपापानि निगूहति - कानिचिद् गोपयति । तस्य मायाविन-आलोचकस्य न ददति प्रायश्चित्तमागमव्यवहारिण इति गम्यते । किन्तु ' बिंति 'ति । ब्रुवन्ति च तं प्रति- ' अन्यत्र शोधय' इति अन्येषां पार्श्वे गत्वाऽऽलोचयेति । मायावितयाऽतिचारान् गोपयन्तं न स्मारयतीति भावः ।। २९ ।। 1 अथ यः स्मृत्यभावान्नालोचयति तस्य किम् ? इत्याह न संभरेइ जे दोसे सब्भावा न य भायओ । पच्चक्खी साहए ते उ माइणो उ न साहए ॥ ३० ॥ व्याख्या—यः कश्चनाप्यालोचनां ददानो न स्मरति यान् दोषान् - स्वापराधान् सद्भावोद्-अकौटिल्यभावात् । न च मायातः- मायातोऽपि हि कश्चित् किष्टकर्माssलोचकः स्मरन्नपि निजाकृत्यान्यस्मरन्तमिवात्मानं दर्शयति, तस्य सद्भावादस्मरणेनाऽनालोचकस्य प्रत्यक्षज्ञानी - अतिशयज्ञानी आगमव्यवहारीति यावत् 'साहए 'ति । साधयति - कथयति ' ते उत्ति । तांस्तु विस्मृतदोषान् यथा चामी दोषा विस्मृताः सन्ति तानालोचयेति । मायाविनः पुनर्दोषस्मृतावप्यनालोचकस्य न कथयति, यदमुकानपराधानालोचयेति गाथार्थः ॥ ३० ॥ अथ मायाविनो दोष विशेषमाह - पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पोवं बीअं बालस्स मंदत्तं ॥ ३१ ॥ व्याख्या – पापं - प्राणिवधादिकं स्वयमात्मना कृत्वाऽऽत्मानं शुद्धमेव व्याहरति-' शुद्धोऽहं - मया न पापं कृतमिति वक्ति । तथा च स मायावी द्विगुणं पापं करोति, द्विगुणप्रायश्चित्तशोध्यत्वात् । एकमपराधनिष्पन्नमेकं च मायानिष्पन्नं च प्रायश्वित्तं प्राप्नोतीत्यर्थः । द्वितीयमेतद् बालस्य- मूर्खस्य मन्दत्वम्-अपायानभिज्ञत्वम् । एकं पापकरणं द्वितीयं पापापलाप इति गाथार्थः ॥ ३१ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96