Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 25
________________ श्राद्धजीतकल्पे पम्हढे सारणा वुत्ता अणायारस्स वारणा । चुकाणं चोयणा भुजो निट्ठरं पडिचोयणा' ॥ १ ॥ इत्यादि । किंस्वरूप ? इत्याह-' गोओ'त्ति पदेकदेशे पदसमुदायोपचाराद् गीतार्थोऽपीति गाथार्थः । गीतार्थस्याप्याचार्यख्य स्मारणाद्यकत्तु (रालोचना न दातव्येति तात्पर्यार्थः) रालोचनायाश्च दाने दोषाः, एवमगीतार्थस्यास्मारकगीतार्थस्यापि च पुर आलोचनाप्रदाने ये दोषा भवन्ति, तद्दोषप्रतिपादकमष्टमं द्वारमुक्तम् । अथ गीतार्थादिगुणान्वितगुरोरालोचनाया अदाने दोषा दाने च गुणा भवन्तीत्येवंरूपं नवमं द्वारं व्याचिख्यासुराह लज्जाइ गारवेण य बहुस्सुअमएण वावि दुचरिअं । जे न कहंति गुरूणं न हु ते आराहगा भणिआ ॥ २४ ॥ व्याख्या-लज्जया-बीडया — गारवेण य 'त्ति । वचनव्यत्ययस्य प्राकृतत्वाद् गारवैश्च हेतुभूतै रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः। बहुश्रुतमदेन वा-बहुश्रुतोऽहमित्यभिमानेन, वाशब्दो विकल्पार्थे । अपिशब्दादपमान-प्रायश्चित्तभीरुत्वादिना च दुश्चरितं-विरुद्धमासेवितं ये केचन मन्दबुद्धयः सत्त्वा न कथयन्ति-नाऽऽलोचयन्ति गुरूणां पुरतः। हुशब्दस्यैवकारार्थत्वान्नव ते दुश्चरितानालोचका आराधका ज्ञानादिमोक्षमार्गस्य भणितास्तीर्थकरगणधरादिभिरितिगाथार्थः ॥ २४ ॥ अथैनमेवार्थ दृष्टान्तपूर्वक प्रकारान्तरेणाह अप्पंपि भावसल्लं अणुद्धिअं रायवणिअतणएहिं । जायं कड्डयविवागं किं पुण बहुआई पावाई ॥ २५ ॥ व्याख्या-इह शल्यं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः शल्यं कण्टक-तोमरादि, परमाण्वादिद्रव्यनिष्पन्नत्वात्तस्य । भावतः शल्यं जीववध-मृषावादाद्यतीचारजातम् । भावोऽन्तरङ्गः परिणामः तमाश्रित्य शल्यमात्मनोऽनन्तसंसारित्वादिविधायकत्वेन दुरन्तदुःखदायित्वात् । तदप्यल्पबहुत्वभेदतो द्विधा । तत्राल्पमपि-पूर्वभवप्रव्रज्यानन्तरं स्वजायासाध्वी-सानुरागावलोकनमात्रत्वेन स्तोकमपि भावशल्यं 'अनुद्धतं' गुरुभ्योऽनिवेदितं राजवणिक्तनयाभ्यां-यथाक्रममार्द्रकुमारेणेलापुत्रेण च जातं कटुकविपाकं-दारुणायतिफलं. तयोरेव सम्यक् संयमासन्नीकृतमोक्षयोरपि धर्मविच्युतिनीचकुलाऽऽगमनादिना दारुणपरिणाम बभूवेत्यर्थः । किं पुनर्बहूनि-प्रभूतानि पापान्यतिचारपदान्यनुद्धतानीतिशेषः । तानि हि भावशुद्धथाऽनालोचितान्यनन्तात्यन्तदारुणसंसारफलानि जन्तूनां भवन्तीति भावः ।। २५ ।। एवं सति यद्विधीयते तद् गाथाद्वयेनाह हा सहसमाणेण व भीएण व पिल्लिएण व परेणं । वसणेण पमाएण व मूढेण व रागदोसेणं ॥ २६ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96