Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 45
________________ 34 श्राद्धजीतकल्पे क्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरमेव विनाशादिति ये वदन्ति, ते अक्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः । कोकुलकां ठेविद्धि रोमक-सुगत-प्रमुखाः । तथा चाहुरेके 'क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारणं सैव चोच्यत' इत्यादि। तेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या । पुण्याऽपुण्यवर्जितशेषजीवादिपदार्थसप्तकन्योसः। तस्य चाधः प्रत्येक स्वपरभेदौ असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः । कालादीनां च पञ्चानामधस्तात् षष्ठी यहच्छा न्यस्यते । इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनः , ततः प्राक् यदृच्छा नोपन्यस्ता । तत एव विकल्पामिलाप:-'नास्ति जीवः स्वतः कालत' इत्येको विकल्पः । एवमीश्वरादिभिरपि यदृच्छावसानः सर्वे च षट् विकल्पाः । तथा 'नास्ति जीवः परतः कालत इति षडेव विकल्पाः' एकत्र मिलिता द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः। ततः सप्त द्वादशगुणाश्चतुरशीतिविकल्पाश्चाक्रियावादिनां नास्तिकानामिति । ___ 'अन्नाणि य सत्तट्ठी 'ति । अज्ञानिकानां सप्तषष्टिर्भेदाः । तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः 'अतोऽनेकस्वरादि 'ति मत्वर्थीय इकप्रत्ययः । अथवा-अज्ञानेन चरन्तीत्यज्ञानिकाः । असश्चिन्त्य कृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः सप्तषष्टिः । ते चामुनोपायेन ज्ञातव्याः । तत्र जीवादि नवपदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः । ते चामी-सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वं सदवाच्यत्वम् असदवाच्यत्वं सदसदवाच्यत्वं चेति । तत्र सत्त्वं-स्वरूपेण विद्यमानत्वम् । असत्त्वं-पररूपेणाविद्यमानत्वम् । सदसत्त्वं-स्वरूप-पररूपाभ्यां विद्यमानाविद्यमानत्वम् । तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकशब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इत्यवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्वावाच्यो युगपद् विवक्ष्यते तदा सदवाच्यत्वम् । यदा त्वेको भागोऽसन् परश्चावाच्यस्तदाऽसदवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्वासनपरतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति । ततः सप्त नबमिर्गुणितात्रिषष्टिः। उत्पत्तेस्तु चत्वार एव विकासाः। ते चामीसत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति । शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमित्यतोऽत्राऽसम्भवीति नोक्तम् । एते चत्वारो विकल्पास्त्रिषष्टिमध्ये क्षिप्यन्ते जाताः सप्तषष्टिः। विकल्यार्थश्चैवम्-को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं तेन ? । एवमसदादयोऽपि वाच्याः। उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति ? । को जानातीत्येतन्न कश्चिदपीत्यमिप्रायः। वेणइयाणं च बत्तीस 'त्ति । वैनयिकानां द्वात्रिंशद् भेदाः । तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिंकाः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशदमुनोपायेनावगन्तव्याः। सुर-नृपति-ज्ञाति-यति-स्थविर-अधम-मातृ-पितॄणां-प्रत्येकं कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेषु भवन्ति । अष्ट चतुर्भिर्गुणिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां मिलने त्रीणि शतानि त्रिषष्टयधिकानीतिरूपो परदर्शनिनां भवतीत्यलं प्रसङ्गेन । अथ प्रकृतं प्रस्तूयते-- मिच्छप्पभावण 'त्ति । मिथ्यात्वसम्बन्धिदेवकुलादौ प्रभावनायाम् । तथा-' असंजमथिरत्ते 'त्ति । असंयमे-ऽसंयमवतां पार्श्वस्थादीनां कुलिङ्गिनां चाधानुष्ठानविषये Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96