Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 48
________________ भिक्षादोषाः ४१ मुत्पाटितपाणिभ्यां च पादाभ्यामूर्ध्वविलगितसिक्किकादिस्थं दाच्या दृष्टेरगोचरं यद्दीयते तज्जघन्यम् । मञ्चकादिकमारुह्य यद्दीयते तन्मध्यमम् । निःश्रेण्यादिकमारुह्य यद्दीयते तदुत्कृष्टम् १३ । आच्छेद्यं त्रिधा-स्वामि-प्रभु-स्तेनभेदात् । तत्र स्वामी-गृहादिनायकः, प्रभु-र्गहपतिस्तौ स्वायत्तमानुषेभ्यः, स्तेना-श्चौरास्ते सार्थिकादिभ्यो बलादाच्छिद्योद्दाल्य यद्ददाति तदाच्छेद्यम्, १४. । अनिसृष्टमपि त्रिविधं-साधारणचोल्लकजइभेदतः । तत्र साधारणराद्धं भक्तं सर्वेषामननुज्ञातमेवैकादेर्ददतः साधारणानिसृष्टम् । चोल्लको-भोजनं यत्कौटुम्बिकप्रेषितहालिकयोग्यचोल्लकमध्यात् कौटुम्बिकस्याननुज्ञयैव चोल्लकवाही यत् साधवे ददाति तच्चोल्लकानिसृष्टम् । जड्डो-हस्ती तत्सत्कं पिण्डादिकं राज्ञो गजेन वाऽननुज्ञातमेव यद्ददाति तज्जडानिसृष्टम् १५ । अध्यवपूरको नाम यत्राग्निसन्धुक्षणस्थालीजलप्रक्षेपाचारम्भे यावदर्थिकाद्यागमनात् पूर्वमेवात्मार्थं निष्पादिते पश्चाद् यथासम्भवं त्रयाणां यावदर्थिकादीनामायाधिकतरास्तन्दुलाः सह राद्धं स्थाल्यां प्रक्षिप्यन्ते सोऽध्यवपूरकः । अत एव चास्य मिश्रजाताद् भेदः । यतो मिश्रजातं तदुच्यते यत् प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते । यत् पुनः प्रथमतः स्वार्थमारभ्यते पश्चात् प्रभूतान् यावदर्थिकादीनागतानवगम्य तदर्थाय यदधिकतरजलतन्दुलादिप्रक्षेपः सोऽध्यवपूरकः । स च यावदर्थिकमिश्रः पाखण्डिमिश्रो यतिमिश्रश्चेति १६ । एते षोडशोद्गमदोषा भवन्ति । एतेषु च आधाकर्म औद्देशिकभेदत्रयम् भक्तपानपूतिः मिश्रजातान्त्यभेदद्वयं बादरप्राभृतिका अध्यवपूरकान्त्यभेदद्वयं चाविशुद्धिकोटिः। यदुक्तम् 'इअ कम्मं उद्देसिअतिअ मीसज्झोयरंतिमदुगं च । आहारपूइ बायरपोहुडि अविसोहिकोडित्ति' ॥ १॥ तदवयवेनापि स्पृष्टं सर्वमन्नपोनाद्यशुचिलवेनेवाभोज्यं भवति । यदुक्तम् - _ 'उग्गमकोडिकणेणवि असुइलवेणं व जुत्तमसणाई । सुद्धपि होइ पूई तं सुहुमं बायरंति दुहा' ॥ १॥ शेषास्तु विशुद्धिकोटयः । तत्सम्पृक्तं चान्नपानादि पुनः संस्तरे साधवः सर्वमेव त्यजन्ति । असंस्तरे तु विविच्य तदेव त्यजन्ति । तक्रादिरसमध्ये क्षेपे तावन्मात्रमेव वा तद्वस्तु त्यजन्ति । यदुक्तम् तं चेव असंथरणे संथरणे सव्वमवि विगिचंति । दुल्लहदव्वे असढा तत्तियमित्तं चिय चयन्ति ॥ १ ॥ उक्ताः षोडशोद्गमदोषाः । अथ षोडशोत्पादनादोषानाह 'धाई दई निमित्त आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥ १॥ पुविपच्छासंथव विज्जा मंते य चुन जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य १६ ॥२॥ अनयोाख्या-धात्र्यः-बालकपरिपालिकाः । ताः पञ्च क्षीर-मज्जन-मण्डन-क्रीडना-कधात्र्यः । तासां कर्म धात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः ५। दूती-परसन्दिष्टार्थकथिका । तस्याः कर्म दौत्यं तेन स्वग्रामे परग्रामे वा सन्दिष्टार्थकथनरूपेण प्राप्तः पिण्डो दूतीपिण्डः २। कालत्रयसंसूचकलाभालाभशुभाशुभादि-संसूचकनिमित्तकथनेन प्राप्तः पिण्डो निमित्तपिण्डः ३ । आजीवनापिण्डो जातिकुलगणशिल्पकर्मभेदतः पञ्चधा । तत्र जातिकुले पूर्वोदितस्वरूपे । गणो-मल्लादिवृन्दम् । शिल्पं-तूर्णनसीवनादि, कर्म-कृष्यादि, अथवाऽप्रीत्युत्पादक कर्म प्रोत्युत्पादकं तु शिल्पम् । अन्ये त्वाहुरनाचार्योपदिष्टं Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96