Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 49
________________ श्राद्धजीतकल्पे कर्म आचार्योपदिष्टं तु शिल्पमिति । एतैरात्मनो गृहस्थस्य च तुल्यरूपताख्यापनेन लब्धः पिण्ड आजीवनापिण्डः ४ । वनीपको-भिक्षाचरस्तद्वत् पिण्डार्थं श्रमणातिथिब्राह्मणकृपणश्वानादिभक्तानां दायकानामात्मानं तत्तद्भक्तं दर्शयन् यल्लभते स वनीपकपिण्डः ५ । चिकित्सापिण्डो द्वेधा-सूक्ष्म-बादरभेदात् । तत्र वैद्यवत् स्वयं वमनविरेचनादिरोगप्रतीकारविधापनं बादरचिकित्सा तयाऽवाप्तः पिण्डो बादरचिकित्सापिण्डः । वैद्यौषधादिसंस्तवनेन सूक्ष्मचिकित्सा तयाऽवाप्तः पिण्डः सूक्ष्मचिकित्सापिण्डः ६ । साधोविद्याप्रभावम्-उच्चाटनमारणादिकं तपःप्रभावं-शापदानादिकम् राजकुले वल्लभत्वं क्रोधफलं वा ज्ञात्वा गृहस्थेन यः पिण्डो दीयते स क्रोधपिण्डः ७ । अभिमानेन हठादपि यः पिण्डो गृह्यते स मानपिण्डः ८ । नानाविधविप्रतारणप्रकारैर्यः पिण्डो लभ्यते स मायापिण्डः । वल्लचणकादिकमसारं लभ्यमानं प्रतिषिध्यन् मोदकादि सारमेव प्रतिगृह्णाति । अथवा प्रचुर मधुरस्निग्धादि वस्तु लभ्यमानं दृष्ट्वा यद्बहु गृह्णाति स लोभपिण्डः १० । संस्तवो द्विधा-श्लोघारूपः परिचयरूपश्च । तत्र श्लाघारूपोवचनसंस्तवः, परिचयरूपः-सम्बन्धिसंस्तवः । एकैको द्विधा-पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र पूर्व यहातारं स्तुत्वा याचते, लब्धे वा पश्चात् स्तौति स पूर्वसंस्तवः पश्चात्संस्तवश्च श्लाघारूपः । सम्बन्धिसंस्तवो मात्रादिनात्रकयोजनं पूर्वसंस्तवः श्वश्वादिसम्बन्धयोजनं तु पश्चोत्संस्तवः ११ । स्त्रोदेवताऽधिष्ठिता ससाधना वा विद्या तत्प्रयोगेण लब्धः पिण्डो विद्यापिण्डः १२ । पुरूपदेवताधिष्ठितोऽसाधनो वा मन्त्रः तत्प्रयोगेणाप्तः पिण्डो मन्त्रपिण्डः १३ । चूर्णमञ्जनादि तदर्पणादिना प्राप्तः पिण्ड'चूर्णपिण्डः १४ । योगः-पादप्रलेपादिः तत्करणार्पणादिना लब्धः पिण्डो योगपिण्डः १५ । मङ्गलमूलिका-नपनक-गर्भाधान-गर्भस्तम्भ-प्रसवपातन-मूलरक्षाबन्धनादिभिर्लब्धः पिण्डो मूलकर्मपिण्डः । एष च महापातकः । यदुक्तम् ___‘मंगलमूलीण्हवणाइ गब्भवीवाहकरणघायाई । भववणमूलं कम्मति मूलकम्मं महापावं' ॥१॥ १६ । उक्ताः षोडशोत्पादना दोषाः । अथ दश ग्रहणैषणादोषानाह ____ 'संकिअ-मक्खिअ-निक्खित्त-पिहिअ-साहरिअ-दायगुम्मीसे । अपरिणय-लित्त-छड्डो य एसणदोसा दस हवंति ।। १ ।। एतस्या व्याख्या-शङ्कितं नाम आधाकर्मादीनां षोडशोद्गमदोषाणां म्रक्षितादीनां च नवैषणादोषाणां मध्ये भक्तादेग्रहणे भोजने वो यं यं दोषं शङ्कते तद् भक्तपानादि तत्तद्दोषशङ्कितं भवति, तद्राही तत्तद्दोषसमानदोषवान् भवतीत्यर्थः । अत्र च चत्वारो भङ्गाः। शङ्कितग्राही शङ्कितभोजी १ शङ्कितग्राही निःशवितभोजी २ निःशङ्कितग्राही शकितभोजी ३ निःशङ्कितग्राही निःशङ्कित. भोजी४ च । अत्र द्वितीयचतुर्थभङ्गौ शुद्धौ, द्वयोरपि भोजनस्य निःशङ्कितत्वेन निर्दोषत्वात् । द्वितीयभङ्गभाविनः शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्भवात् । शेषभङ्गद्वये पुनः शङ्कितदोषसमानं दोषमापद्यत इति १ । म्रक्षितं द्विधा-सचित्ताचित्तभेदेन । तत्राद्यं पृथिवी-जल-वनस्पतिभेदेन त्रेधा । तत्र पृथिवीम्रक्षितं चतुर्द्धा-सरजस्कं-सचित्तपृथिवीरजोवगुण्ठितं देय-हस्त-मात्रकादि तच्च तन्मक्षितं च सरजस्कम्रक्षितम् । तथा सेटिकोषादिम्रक्षितम् - ऊषमृत्तिकाहरितालहिङ्गलकमनः शिलाञ्जनलवणगैरिकसेटिकादिपृथिवीकायम्रक्षितमित्यर्थः । निर्मिश्रोऽपरिणतः सचेतनः, मिश्रः सचित्ताऽचित्तरूप एवंविधो यः कर्दमस्तेन म्रक्षितं निर्मिश्रकर्दमम्रक्षितं मिश्रकर्दमम्रक्षितं चेत्यर्थः । अप्कायम्रक्षितमपि चतुर्दा-पुरःकर्म पश्चात्कर्म सस्निग्धं उदका च । तत्र दानात् पूर्वं हस्तमात्रकयोः क्षालने पुरःकर्म, Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96