Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 35
________________ श्राद्धजीतकरूपे निन्द्यत्वमावेदयति । किं भणसि ? इत्याह-व्यवच्छिन्न प्रायश्चित्तं तदाता च गीतार्थादिगुणान्वितगुरुर्व्यवच्छिन्न इति । अभ्यैवार्थस्य ग्रन्थान्तरानुवादप्रदर्शनार्थमोह-'अपिचेत्युपन्यासे, उक्तं-प्रतिपादितं शास्त्रान्तर इति गम्य इतिगाथार्थः ।। ५० ।। तदेवाह अणवटुप्पो तवसा तवपारंची अ दुणि वुच्छिण्णा । चउदसपुव्वधरंमि धरति सेसा उ जा तित्थं ॥५१॥ __व्याख्या-तपसा कृत्वाऽनवस्थाप्यस्तपोऽनवस्थाप्यस्तथा तपःपाराश्चिकश्च एतौ द्वापि प्रायश्चित्तभेदी व्यवच्छिन्नौ। कस्मिन् पुरुष ? इत्याह-चतुर्दशपूर्वधरे श्रीभद्रबाहुस्वामिनि । शेषास्तु लिङ्गक्षेत्रकालानवस्थाप्यपाराश्चिका यावत्तो) धरन्ति -अनुव्रजन्ति भवन्तोत्यर्थः । यदि लिङ्गक्षेत्रकालानवस्थाप्यपाराश्चिका यावत्तीयं भवन्ति, तदालोचनादिप्रायश्चित्तानां यावत्तीथं भवमे किं वाच्यमितिभावः । अथ किञ्चिदनवस्थाप्य-पाराञ्चिकयोः स्वरूपं यतिजोतकल्पगाथाभिरेवोच्यते 'कोरइ अणवट्ठप्पा सो लिंगा खित्तकालओ तवओ। लिंगेण दव्वभावे भणिओ पव्वावणाणरिहो' । १। क्रियते तथाविधापराधकारित्वान् महाव्रतेषु लिङ्गे वा नावस्थाप्यत इत्यनवस्थाप्यः । म चतुर्द्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । लिङ्गं द्विधा-द्रव्ये भावे च । तत्र द्रव्यलिङ्गं-रजोहरणादि, भावलिङ्ग-महाव्रतादि । अत्र चतुर्भङ्गो द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्य इत्येको भङ्गः । द्रव्यलिङ्गेनानवस्थाप्यो न भावलिङ्गनेति द्वितीयः । भावलिङ्गनानवस्थाप्यो न द्रव्यलिङ्गेनेति तृतीयः । उभाभ्यामपि नानवस्थाप्य इति चतुर्थः । इह द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः प्रवाजनानहाँ भणितः । लिङ्गानवस्थाप्यादि चातुर्विध्यमेव विवृण्वन्नाह ‘अप्पडिविरओसन्नो न भावलिंगारिहोणवट्ठप्पो । जो जत्थ जेण दूसइ पडिसिद्धो तत्थ सो खित्ते' । १ । अप्रतिविरतः-साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्तत्वेनानिवृत्तः स्वपक्षपरपक्षप्रहरणोद्यतो निरपेक्षोऽनुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्यः प्रथमभङ्गवर्ती क्रियते । अष्टाङ्गनिमित्ताद्यर्थदानप्रयोक्ताऽवसन्नोदिकस्तत्तदोषानिवृत्तौ न भावलिङ्गाहः । अयं भावः-स द्रव्यालङ्गी भवति, न भावलिङ्गमहति । भावलिङ्गमपेक्ष्यानवस्थाप्यः तृतीयभङ्गवर्ती भवतीत्यर्थः । द्वितीय-चतुर्थभङ्गो पुनर्न सम्भवत इति । क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्रे येन कर्मणा दूष्यते स तद्दोषकरणनिवृत्तोऽपि तत्र क्षेत्र प्रतिषिद्धः-महाव्रतेषु स्थापने निराकृतः-यथार्थादानकारी तत्रैव क्षेत्रे महाव्रतेषु न स्थाप्यते । यतः पूर्वाम्यासात्तं लोको निमित्तं पृच्छेत् स वा तं निमित्तज्ञानजमृद्धिगौरवं सोढुमक्षमः कदाचित् कथयेत , ततोऽन्यत्र नीत्वोपस्थाप्यः । उत्तमार्थप्रतिपन्नस्य पुनस्तत्रापि-स्वस्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव । उक्तौ लिङ्गक्षेत्रानवस्थाप्यौ । कालतपोऽनवस्थाप्यावाह जत्तियमित्तं कालं तवसा उ जहण्णएण छम्मासा । संवच्छरमुक्कोसं आसायइ जो जिणाईणं । १। यो यावन्तं कालं दोषान्नोपरमते स तावन्तं कालमनवस्थाप्यः क्रियते । तपसा त्वनवस्थाप्यो Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96