Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 32
________________ दशधा प्रायश्चित्तम् तु इकपि 'त्ति । इहाऽग्रतश्च विभक्तिव्यत्ययः प्राकृतत्वात् । तुशब्दः पुनरर्थे । ततस्तु-पुनरनालोचितेनैकेनापि प्रायश्चित्तस्थानेन सशल्येन मरणेन म्रियते-सशल्य एव म्रियते इत्यर्थः ॥ ४३ ॥ अतः सम्यगालोच्य यत् कार्य तदाह ता तस्स पायच्छित्तं जं मग्गविऊ गुरू उवइसति । तं तह आयरियव्वं अणवत्थपसंगभीएणं ॥ ४४ ॥ व्याख्या-'त 'त्ति, यत एवं ततस्तस्यापराधस्य प्रायश्चित्त-तपः 'जं'ति । यत-यावन्मानं 'मग्गविऊ 'त्ति, मार्गविदः । तत्र मागों द्विधा द्रव्यतो भावतश्च । द्रव्यतो नगरप्रामादिपन्थाः मावतस्तु मोक्षमार्गः । स च द्विधा-श्रुतरूपश्चारित्ररूपश्च । अत्र तु भावमार्गेणाधिकारस्तस्य विदः-श्रुतवन्तः क्रियावन्तश्चेत्यर्थः । 'गुरू'त्ति, गुरव उपदिशन्ति-कथयन्ति, तत् प्रायश्चित्तं तथा-गुरुदत्तप्रकारेणाचरितव्यंकर्त्तव्यं साध्वादिनाऽऽलोचकेनेति गम्यते, न तु प्रमादावहीलने कार्ये इत्यर्थः । कीदृशेन ? इत्याह' अनवस्थाप्रसङ्गभीतेन' तं दृष्ट्वाऽन्योऽपि तथा करोतोत्यनवस्थाप्रसङ्गः। यद्वा-अवस्थानमवस्था न अवस्था अनवस्था-अवस्थानाभाव इति यावत् । अयमर्थः-प्रथमं परिणामस्य तथाविधदारुणत्वाभावेनालोचनाईमपराधमासेव्य पश्चालज्जादिना गुरोः पुरतोऽनालोचकत्वेन परिणामदारुणत्ववृद्धथा प्रतिक्रमणाचं प्राप्नोति प्रायश्चित्तं, तावद्वाच्यं यावत् पोराश्चिकमपि प्राप्नोति । एवं प्रायश्चित्तेष्वनवस्थितिरूपति तस्याः प्रसङ्ग इति गाथार्थः ॥ ४४ ॥ लघुप्रायश्चित्तशोध्यं स्थानं भावविशेषाद् गुरुप्रायश्चित्तशोध्यं स्यात्तथा गुरुप्रायश्चित्तशोध्य भावविशेषाल्लघुप्रायश्चित्तशोध्यं भवतीति भावस्यैव प्रायश्चित्तापत्त्यविकलहेतुत्वज्ञापनार्थ प्रायश्चित्तापत्तिवैचित्र्यमाह जह मन्ने पढम सेविऊण निग्गच्छई उ चरिमेणं । तह मन्ने चरिमं सेविऊण निग्गच्छई पढमे ॥ ४५ ॥ व्याख्या-मन्ये-सम्भावये, यथा-येन पूर्वोक्तप्रकारेण प्रथम-प्रथमालोचनाप्रायश्चित्तशोध्यं पदमासेव्यातिसक्लिष्टाध्यवसायत्वाचरिमेण निर्गच्छति-पाराश्चिकप्रायश्चित्तेन शुद्धयतीत्यर्थः । तुशब्दादनवस्थाप्यादिमिरपि । तथा मन्ये, चरिमं-पाराश्चिकोचितं पदमासेव्य ज्ञानाद्यालम्वनमपेक्ष्य सम्यग यतनया प्रवृत्तत्वेन निग्गच्छइ 'पढमे'त्ति। प्रथमालोचनाप्रायश्चित्तेनैव शुद्धथतीति भावः । यस्मादेवं तस्माद्यद् गुरव उपदिशन्ति प्रायश्चित्तं तत्तथैव समाचरितव्यमनवस्थाप्रसङ्गादिदोषमीतेन जन्तुनेति पूर्वगाथया सह सम्बन्धः।। अथ प्रायश्चित्तभेदानाह तं दसविहमालोयण-पडिकमणोभय-विवेगमुस्सग्गे । तव-छेय-मूल-अणवहया य पारंचिए चेव ॥ ४६॥ व्याख्या-तं'ति । तत्-प्रस्तुतं प्रायश्चित्तं दशविध-दशप्रकारं भवतीतिक्रियासम्बन्धः। के ते दश प्रकारा ? इत्याह-'आलोयण 'त्ति । आलोचनम्-आ-मर्यादया ‘जह बालो जंपंतो' इत्यादि Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96