Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 28
________________ सम्यगालोचकानां फलम् ततः किं कुर्याद् ? इत्याह मायाइदोसरहिओ पइसमयं वड्ढमाणसंवेगो । आलोइज अकजं न पुणो काहंति निच्छयओ ॥ ३२ ॥ व्याख्या-मायया-आदिशब्दाल्लज्जाकम्पनादिभिश्च दोषै रहितः प्रतिसमयं-प्रतिक्षणं वर्द्धमानसंवेग आलोचयेदकार्य-करणानहत्वादकार्थ-पापं, न पुनरेतदकृत्यं करिष्यामीति निश्चयादन्यथा तत्प्रदानस्य वयर्थ्यप्रसङ्गादिति गोथार्थः ॥ ३२ ॥ यथोक्तप्रकारेणालोचिताऽऽलोच्यपदानामालोचकानां फलमाह निवियपावपंका सम्मं आलोइउ' गुरुसगासे । पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं ॥३३॥ व्याख्या-सम्यग-निर्मायतया गुरुसकाशे स्वातिचारानिति गम्यते, आलोच्य ‘निष्ट्रवियपावपंक 'त्ति । क्षपितसकलकर्मा शमलाः सन्तोऽनन्तकालेनानन्तसङ्ख्याया अपि लम्यमानत्वादनन्तीः सत्त्वाः-प्राणिनः प्राप्ता-गताः, किमित्याह-शाश्वतं-साधनन्तत्वात सौख्यं-मुक्तावस्थालक्षणमनाबाधं. क्षुदादिबाधाऽभावात् । उपलक्षणत्वाद् यास्यन्त्यनन्ता इति गाथार्थः ।। ३३ ।। अनालोचकानां फलव्यतिरेकमाह मरिउ ससल्लमरणं संसाराडविमहाकडिल्लंमि । सुइरं भमंति जीवा अणोरपारंमि ओइन्ना ॥ ३४ ॥ व्याख्या-सशल्यमरणं यथा भवति एवं मृत्वा संसार एवाटवीमहाकडिल्लम्-अटवीमहागहनम् तत्र, कीडशे ? इत्याह- अणोरपारंमि 'त्ति । अनर्वापारे अवतीर्णाः-प्राप्ताः सन्तः सुचिरं-प्रभूततरकालं भ्रमन्ति-नैरयिकाद्यपरापरपर्यायत्वेनोत्पद्यमाना तिष्ठन्ति जीवा इति गाथार्थः ॥ ३४ ॥ अथ सशल्यस्य तपसोऽपि व्यर्थतामाह ससल्लो जइवि कढग्गं घोरं वीरं तवं चरे । दिव्वं वाससहस्सं उ तओवि तं तस्स निष्फलं ॥ ३५ ॥ अविय । व्याख्या-सशल्यो-मिथ्यादर्शनादिशल्यसंयुक्तः पुमान् यद्यपि कष्टं - कष्टकारित्वात् उग्रं मन्दसत्त्वैरनाश्रयणीयत्वात् घोरं-दुर्धरत्वात् वीरं-वीरजनसाध्यत्वात् तपो-बाह्यान्तरभेदं चरेतकुर्यान् । कियन्मितं कालमित्याह-'दिव्वं 'ति । लोकप्रसिद्धथा देवसम्बन्धि वर्षसहस्र । तदुक्तं भवेत्पैत्रं त्वहोरात्रं मासेनादेन देवतम् । देवे युगसहस्र द्व ब्राह्मथ कल्पौ तु ते नृणाम् ' ॥ १ ॥ इत्यादि । ततोऽपि तत्तपस्तस्य निष्फलं-विशेषफलासाधकं सशल्यत्वादेवेति गाथार्थः ॥ ३५ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96