________________
सम्यगालोचकानां फलम् ततः किं कुर्याद् ? इत्याह
मायाइदोसरहिओ पइसमयं वड्ढमाणसंवेगो ।
आलोइज अकजं न पुणो काहंति निच्छयओ ॥ ३२ ॥ व्याख्या-मायया-आदिशब्दाल्लज्जाकम्पनादिभिश्च दोषै रहितः प्रतिसमयं-प्रतिक्षणं वर्द्धमानसंवेग आलोचयेदकार्य-करणानहत्वादकार्थ-पापं, न पुनरेतदकृत्यं करिष्यामीति निश्चयादन्यथा तत्प्रदानस्य वयर्थ्यप्रसङ्गादिति गोथार्थः ॥ ३२ ॥
यथोक्तप्रकारेणालोचिताऽऽलोच्यपदानामालोचकानां फलमाह
निवियपावपंका सम्मं आलोइउ' गुरुसगासे ।
पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं ॥३३॥
व्याख्या-सम्यग-निर्मायतया गुरुसकाशे स्वातिचारानिति गम्यते, आलोच्य ‘निष्ट्रवियपावपंक 'त्ति । क्षपितसकलकर्मा शमलाः सन्तोऽनन्तकालेनानन्तसङ्ख्याया अपि लम्यमानत्वादनन्तीः सत्त्वाः-प्राणिनः प्राप्ता-गताः, किमित्याह-शाश्वतं-साधनन्तत्वात सौख्यं-मुक्तावस्थालक्षणमनाबाधं. क्षुदादिबाधाऽभावात् । उपलक्षणत्वाद् यास्यन्त्यनन्ता इति गाथार्थः ।। ३३ ।।
अनालोचकानां फलव्यतिरेकमाह
मरिउ ससल्लमरणं संसाराडविमहाकडिल्लंमि ।
सुइरं भमंति जीवा अणोरपारंमि ओइन्ना ॥ ३४ ॥ व्याख्या-सशल्यमरणं यथा भवति एवं मृत्वा संसार एवाटवीमहाकडिल्लम्-अटवीमहागहनम् तत्र, कीडशे ? इत्याह- अणोरपारंमि 'त्ति । अनर्वापारे अवतीर्णाः-प्राप्ताः सन्तः सुचिरं-प्रभूततरकालं भ्रमन्ति-नैरयिकाद्यपरापरपर्यायत्वेनोत्पद्यमाना तिष्ठन्ति जीवा इति गाथार्थः ॥ ३४ ॥
अथ सशल्यस्य तपसोऽपि व्यर्थतामाह
ससल्लो जइवि कढग्गं घोरं वीरं तवं चरे ।
दिव्वं वाससहस्सं उ तओवि तं तस्स निष्फलं ॥ ३५ ॥ अविय ।
व्याख्या-सशल्यो-मिथ्यादर्शनादिशल्यसंयुक्तः पुमान् यद्यपि कष्टं - कष्टकारित्वात् उग्रं मन्दसत्त्वैरनाश्रयणीयत्वात् घोरं-दुर्धरत्वात् वीरं-वीरजनसाध्यत्वात् तपो-बाह्यान्तरभेदं चरेतकुर्यान् । कियन्मितं कालमित्याह-'दिव्वं 'ति । लोकप्रसिद्धथा देवसम्बन्धि वर्षसहस्र । तदुक्तं
भवेत्पैत्रं त्वहोरात्रं मासेनादेन देवतम् । देवे युगसहस्र द्व ब्राह्मथ कल्पौ तु ते नृणाम् ' ॥ १ ॥ इत्यादि । ततोऽपि तत्तपस्तस्य निष्फलं-विशेषफलासाधकं सशल्यत्वादेवेति गाथार्थः ॥ ३५ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org