Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 17
________________ श्राद्धजीतकल्पे मष्टमं कृत्वा तत्र सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्हं प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तथा च न दृष्टस्तीर्थकरस्ततः साऽष्टमेनाऽऽकम्पिता ब्रूते महाविदेहे तीर्थकरमापृच्छय समागच्छामि । ततः स तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभि समीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति । आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथाप्रतिपद्यमानः शुद्ध एव, सूत्रोक्तविधिना प्रवृत्तेः । यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति । १० अथ पानामाचार्यादीनां प्रागुक्तानां किञ्चित्स्वरूपं व्यवहारभाष्यगाथाभिरेव स्पष्टीक्रियते । तत्र प्रथममाचार्यस्वरूपमाह सुत्तत्थतदुभएाह उवउत्ता नोणदंसणचरिते । गणतत्तिविष्यमुक्का एरिसया हुंति आयरिया || १ || व्याख्या- ये सूत्रार्थतदुभयैरुपेता इति गम्यते । तथा ज्ञानं च दर्शनं च चारित्रं चेति समाद्दारो द्वन्द्वस्तेषु सततमुपयुक्ताः - कृतोपयोगाः । तथा गणस्य - गच्छस्य या तप्तिः - सारा तया विप्रमुक्ता गणाबच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात् उपलक्षणमेतत् शुभलक्षणोपेताश्च । ये एतादृशा एवंविधगुणोपेता भवन्ति ते आचार्याः । ते चार्थमेव केवलं भाषन्ते, न तु सूत्रमपि वाचयन्ति । तथा चोक्तम्'सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतन्तिविप्पभुक्को अत्थं भासेइ आयरिओ ' ॥१॥ अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति ? तत आह व्याख्या- एगग्गयाय झाणे वुड्ढी तित्थयर अणुगिई गुरुआ । आणाथिज्जमिइ गुरू कयरिणमुक्खो न वाएइ ॥ - सूत्रवाचनप्रदान परिहारेणार्थमेव केवलं व्याख्यानयत आचार्यस्यैकाग्रता - एकाग्रमनस्कता ध्याने- अर्थचिन्तनात्मके भवति । यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायाstar न स्यात् । एकाग्रतयाऽपि को गुण ? इत्यत आह-' वृद्धिः ' एकाग्रस्य हि सतोऽर्थचिन्तयतः सूत्रार्थस्य तत्र सूक्ष्मार्थोन्मीलनाद् वृद्धिरुपजायते । तथा तीर्थकरानुकृतिरेवं कृता भवति । तथाहि तीर्थ कृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणर्ताप्त कुर्वन्ति । एवमाचार्या अपि तथावर्त्तमानातीर्थकरानुकारिणो भवन्ति । सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते । तद्वाचनायास्ततोऽधस्तन पदवृत्तिभिः क्रियमाणत्वाद् । एवं च तस्य तथावर्त्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति । यद्गुरुतायां च प्रवचनप्रभावना । तथा आज्ञायां स्थैर्यमाज्ञास्थैर्यं कृतं भवति । तीर्थकृतामेवमाज्ञा पालिता भवतीत्यर्थः । इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेण ममानुकारिणा आचार्येण भवितव्यमिति । इत्यस्माद्धेतुकलापाद् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षः, न ह सामान्यावस्थायाम के साधवः सूत्रमध्यापितास्तत ऋणमोक्षस्य कृतत्वात् सूत्रं न वाचयति । उक्तमाचार्य स्वरूपमिदानीमुपाध्यायस्वरूपमाह Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96