Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 14
________________ आलोचनाऽऽचार्यस्य विशेषगुणाः 'नासेइ अगीअत्यो चउरंगं सव्वलोअसारंगं । नटुमि चउरंगे न हु सुलहं होइ चउरंग 'मिति ॥७॥ अथ कस्येति तृतीयद्वारमभिधित्सुराह गीअत्थो कडजोगी चारित्ती तह य गाहणाकुसलो । खेअन्नो अविसाई भणिओ आलोयणायरिओ ॥ ८॥ व्याख्या-गीतार्थादिगुणयुक्त आलोचनाऽऽचार्य-आलोचनाप्रदानयोग्यो गुरुर्भवतीति क्रियासम्बन्धः । गीतार्थः-अधीताचारप्रकल्पनिशीथादिश्रुतसूत्रार्थः । यदुक्तं 'गोअं भन्नइ सुत्तं अत्थो पुण होइ तस्स वक्खाणं । गीएण य अत्येण य संजुत्तो होइ गोअत्यो' ॥ १ ॥ इति । कृतयोगी नाम सूत्रोपदेशेन मोक्षाविरोधी कृतः-अभ्यस्तो यो योगो-मनोवाकायव्यापारात्मको विविधषष्ठाष्टमादितपोध्योनादिरूपो वा स कृतयोगः , स यम्याऽस्तीति स कृतयोगी विविधशुमध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः । चारित्रीति-निरतिचारचारित्रवान् । तथा ग्राहणाकुशलः-पाहणा नाम बहीभियुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादिविधेरङ्गीकरणं तत्र कुशलः । खेदज्ञः-खेदो नाम प्रायश्चित्तादिविधिविषयः परिश्रमोऽभ्यास इति यावत् तं जानातीति खेदज्ञः प्रायश्चित्तविधेः सम्यग ज्ञातेत्यर्थः । अविषादी-महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् प्रत्युतालोच. नादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ॥ ८ ॥ पुनरालोचनाचार्यस्यैव विशेषगुणस्वरूपमाह आयारवमाहारव ववहारुव्वीलए पकुव्वी अ । अपरिस्सावी निज्जव अवायदंसी गुरू भणिओ ॥९॥ व्याख्या-आचारवान्-आचारो ज्ञानाचारादिरूपः पञ्चप्रकारः सोऽस्यास्तीत्योचारवान् १, आधारवान्-आलोचितापराधानामा-सामस्त्येन धारणमाधारः सोऽस्यास्तीत्याधारवान् , आलोचकेनालोच्यमानं यः सर्वमवधारयति स आधारवानित्यर्थः २, व्यवहारवान्-प्ररूपणादिप्रकारेण व्यवह्रियतेऽपराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहारः-आगमादिकः पश्चप्रकारः पूर्वोक्तस्वरूपः सोऽस्यास्तीति व्यवहारवान्, यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तप्रदानतो व्यवहरति स व्यवहारवानित्यर्थः ३, अपनीडकः-अपगता ब्रीडाऽस्येत्यपव्रीडः, अपव्रीडं कुरुतेऽपवीडयति, अपनीडयति-लज्जां मोचयतीत्यपव्रीडकः। आलोचकं लज्जयाऽतिचारान् सम्यगनालोचयन्तं-सर्वथा गोपायन्तं वा यो विचित्रमधुरादिवचनप्रयोगैः परमसंवेगसारैस्तथा कथञ्चनापि वक्ति यथा स लज्जामपहाय सम्यगेवालोचयति सोऽपवीडकः ४, प्रकुर्वी-'कुर्व' इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवंशीलः प्रकुर्वी। किमुक्तं भवति-आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति-विशुद्धिं कारयितुं समर्थ इत्यर्थः ५, अपरिस्रावी-न परिस्रवतीत्येवंशीलोऽपरिस्रावी-गोप्यमगोप्यं वाऽऽलोचकेनालोचितमतिचारजातं योऽन्यस्मै न कथयति सोऽपरिस्रावीति भावः ६, 'निज्जव 'त्ति। निर्यापो-निधितं यापयति प्रायश्चित्तविधिषु याप्यमालोचक Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96