Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 8
________________ 9 णमोत्थु ण समणस्स भगवओ महावीरस्स के आगमोद्धारक-आचार्यप्रवरश्री-आनन्दसागरसूरीश्वरेभ्यो नमः आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः श्राद्ध-जीतकल्पः। श्रीवीरं सगणधरं नत्वा श्रुतधरमुनीन् गुरूँग्ध मुदा । श्राद्धजनजीतकल्पं विवृणोमि खपरहितकृतये ॥ १॥ इह श्रावकजनप्रोयश्चित्तप्रतिपादका विविधसामाचार्यमिप्रायेणानल्पा जीतकल्पाः सन्ति । तेषु व कचिद्विस्तरेण कचित् सझेपेण प्रायश्चित्तान्यभिधीयन्ते । तत्र ( प्रायश्चित्तेषु ) च पूर्वाचार्यपरम्परा गताम्नायेन नानातिचारानाश्रित्य पुरुषाद्यौचित्येन काऽपि काऽपि प्रायश्चित्तापत्तिरुक्ता । प्रतिदिनं ३ कस्य सामस्त्येन तदवगाहनसामर्थ्य भवेत् ? ततः किं कुत्र तपो भवति ? कथं च सम्यक् शुद्धिर्भवतीति व्यामुहन्त्यन्तेवासिनः । अतस्तेषां सुखेन प्रायश्चित्तप्रतिपत्तये परमगुरुश्रीधर्मघोषसूरिपादाः समस्तश्राद्धजीत कल्पानामुपनिषत्कल्पं कल्प-व्यवहार-निशीथ-यतिजीतकल्पानुसारेण श्राद्धजीतकल्पं कृतवन्तः। अरं चचोम्यानामेव विनेयानां प्रदेयो नाऽयोग्यानाम् । तत्र योग्या ये रङ्गसंवेगतरङ्गिणीतरङ्गप्रक्षालितान्तर मलाः समस्तसिद्धान्तार्णवपारीणाः परिणतवयसः सार्वपीनप्रतिभाप्राग्भारस्वान्ताः सततमुत्सर्गापवाद गोचराचारचतुराश्चिरप्रव्रजिताः । ये त्वेतद्विपरीताः तितिणिकादयश्च तेऽयोग्याः । यदुक्तम्तितिणिए चलचित्ते गाणंगणिए अ दुबलचरित्ते । रायणिअपारिभासी वामावट्टे अ पिसुणे अ॥१॥ तितिणिको-मुहुर्मुहुर्मन्दमन्दस्वरं झसनशीलः , चलचित्तो-भाषागत्यादिमिश्चञ्चलः , गाणङ्ग णिफो-यः षण्मासान्तर्गणाद् गणं सङ्कामति स गाणङ्गणिकः, यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टा लम्बनं विना मूलोत्तरगुणविषयानपराधान् प्रतिसेवते स दुर्बलचरित्रः, रानिको-रत्नाधिक आचार्यादि प्रत्यवज्ञावचनादिमिः परिभाषते यः स रानिकपरिभाषी, वामावर्त्त-आदिष्टकार्यविपरीतकारी, पिशुन:अलीकानीतराणि वा परदूषणानि भाषते यः स पिशुनः । एतेषामयं न दातव्यो, यतः आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ १॥ इत्यादि । अतो योग्यानामेव दातव्यः । अथ च सर्वाण्यपि शास्राणि मङ्गलामिधेयप्रयोजनसम्बन्धप्रतिपादनपुरस्सराण्येव प्रणीयन्त इति प्रस्तुत शास्त्रस्यादौ शास्त्रकृत् मङ्गलामिषेयप्रयोजनानां साक्षादभिधानाय सम्बन्धस्य संसूचनाय चेमामादिगाथामाह कयपवयणप्पणामो जीयगयं सड्ढदाणपच्छित्तं । सपरहिअधारणट्ठा जहासुअं किंपि जंपेमि ॥१॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 96