Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 471
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । अथान्योन्यालंकारःद्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । विशेषश्च क्रियादिरूपः । यथा'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥' अत्र गुणरूपविशेषाधानम् । रुचेर्गुणत्वात् । न च विधानरूपक्रियात्मकविशेषाधानमिह शङ्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेषत्वात् । 'परपूरुपदृष्टिपातवजाहतिभीता हृदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र क्रियारूपविशेषाधानम् । यत्तु “यथोक्षिः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन स्वासया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलपन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः ।" इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुप्मतो ग्रन्थकर्तुयुत्पत्तिशैथिल्यमुद्रिति । तथा हि-स्वमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्तिरिति वाच्यम् । तदिदमस्मद्युप्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीयत्वात् । सा च प्रकते यद्विशेषणघटकत्वेन स्वनिजादयः शब्दा उपात्तास्तद्वोधका इत्येवंरूपा । तेन स्वदाररतानां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533