Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 524
________________ Shri Mahavir Jain Aradhana Kendra ५०८ www. kobatirth.org काव्यमाला | 'हिंसाप्रधानैः खलु यातुधानैर्यानीयतापावनतां सदैव । रामाङ्घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीब ॥' अत्र दोषेण दोषः पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेषः । यथा वा Acharya Shri Kailassagarsuri Gyanmandir 'भूषितानि हरेर्भक्तैर्दूषितानि पराङ्मुखैः । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥' अत्रोत्तरोत्तरव्यापकतया तथेति विशेषः । 'श्वपाकानां व्रातैरमितविचिकित्साविचलितै विमुक्तानामेकं किल सदनमेनः परिषदाम् । मुदा मामुद्ध जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः || ' अत्र वक्तृगतपापरूपदोषमयुक्तस्तदुद्धयः श्रीगङ्गायाः श्लाध्यत्वं गुणः । यथा वा अथावज्ञा तद्विपर्ययोsवज्ञा । श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्राश्रावं मम तु पुनरेवंविधगुणा I नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥' इहापि प्रावदेव । किं तु व्यङ्ग्यः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके । 'लौकिकार्थमयत्वादनलंकार एव' इत्यपरे । इति रसगङ्गाधर उल्लासप्रकरणम् । वन्या वनसमूहः । मुनेरिति । गौतमस्याहल्येवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकरं कटिबन्धनम् । श्ववृत्तिः सेवा । त्वत् त्वाम् । भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्म - प्रकाश उल्लासप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533