Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 530
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तदरुणिम्नो बाधस्तदा तत्राप्यपरस्तद्गुणः । इमं केचित्सर्वरूपमामनन्ति । यद्यप्युल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तत्रान्यदीयगुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादेः शोणत्वमिवाधीयते । प्रकृते तु जपाकुसमलौहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततोऽस्य भेदः। इति रमगङ्गाधरे तद्गुणप्रकरणम् । अथातद्गुणःतद्विपर्ययोऽतद्गुणः । यथा 'कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे . न काठिन्यं धत्ते तब हृदयमत्यन्तमृद लय । मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ।।' अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्वगुणत्यागाभावस्त्वार्थः । उत्तरार्धगते दृष्टान्ते तु स्वगुणत्यागाभावः शाब्दः परगुणाग्रहणं त्वार्थम् । न चायमवज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चातद्रुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । 'अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां दैविध्यम्' इति सर्वस्वकारः । त. स्यायमाशयः-अपकष्टसंवन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्यानाधायकत्वादनलंकारतेवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु.-'अवान्तरचमत्कारविशेषस्याभावाहविध्यमपि न' इति वदन्ति । अपरे तु–'सति गुणग्रहणहेतावुत्कृष्टगुणवस्तुसंनिधाने तद्रुणग्रहणरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेदः, न त्वलंकारान्तरम् । कार्यका प्राग्वदाह अथेति । सर्वरूपं तदाख्यम् ॥ इति रमगङ्गाधरममप्रकाशे तद्गुणप्रकरणम् ॥ प्राग्वदाह--अथेति । उक्तस्वरूपात्स्वरूपान्तरमाह-सतीति । शङ्कते-कायेति । सतीत्यस्य यत इत्यादिः । म च विरोधश्र ॥ इति रसगङ्गाधरमर्मप्रकाशेऽतद्गप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 528 529 530 531 532 533