Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 528
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ५१२ श्रिते सहृदयानामिच्छाद्वेषयोरुचितैवोत्पत्तिः, हरीतकी कदलभक्षणयो रिवेति । [इति रसगङ्गाधरे तिरस्कारप्रकरणम् । ] काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir [अथ लेश:-] गुणस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः । यथा अपि बत गुरुग मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥' 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् । 'स्खलन्ती स्वर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिवन्द्वा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ||' अत्र दोषोऽपराधः । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्खयम् । मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि 'अपि बत गुरुगर्व' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम् अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरी वृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि तस्यामेव विश्रान्तिः । एवं 'नैर्गुण्यमेव साधीयः' इत्यत्र शाख्य प्राग्वदाह - अथेति । उभयेति । स्तुतिनिन्दारूपयेत्यर्थः । मुखं प्रारम्भः । सा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533