Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गुणाधानमित्युल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति ।
[इति रसगङ्गाधरेऽवज्ञाप्रकरणम् ।] [अथानुज्ञा-]
उत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः प्रार्थनमनुज्ञा । यथा'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे।
जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥' अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम् ।
[इति रसगङ्गाधरेऽनुज्ञाप्रकरणम् ।] [अथ तिरस्कारः-] एवम्दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः । यथा'श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा
मदभ्राम्यदृङ्गावलिमधुरसंगीतसुभगाः । निमयानां यासु द्रविणरसपर्याकुलहृदां
सपर्यासौकर्य हरिचरणयोरस्तमयते ॥' अत्र हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः ।
अमुं च तिरस्कारमलक्षयित्वानुज्ञां लक्षयतः कुवलयानन्दकतो विस्मरणमेव शरणम् । अन्यथा 'भवद्भवनदेहली-' इति तदुदाहृतपद्ये 'किमित्यमरसंपदा' इत्यंशे तिरस्कारस्य स्फुरणानापत्तेः । ननु कथमनयोरलंकारयोः संभवः । यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता
प्राग्वदाह-अथेति । अद्धति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुज्ञाप्रकरणम् ॥]
For Private And Personal Use Only

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533