Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 525
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । तस्योल्लासस्य विपर्ययो ऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुणदोषाधानाभाव इति पर्यवसितोऽर्थः । यथा— 'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मनो मैनाक इव मार्दवम् ॥' अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकता रूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः । ' मध्येगलं विहरतां गरलं निकामं नागाधिपः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः ॥' अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मूर्ती क्रूरत्वादिदोषाधानस्याभावः । न चात्रातगुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुनाजलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूतेर्गरलादिगतकरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूरत्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । ' निष्णातोऽपि - ' इत्यादौं तु तद्गुणस्याप्रसक्तिरेव । 'महाणि मा कुरु विषादमनादरेण Acharya Shri Kailassagarsuri Gyanmandir मात्सर्यमन्दमनसां सहसा खलानाम् । For Private And Personal Use Only ५०९ काव्यारविन्दमकरन्दमधुव्रताना मास्येषु यास्यसि सतां विपुलं विलासम् ॥' अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभावः शाब्दः वाणीगतरमणीयतारूपगुणप्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सहृदयगुणेन सरसतारूपेण वाण्या उल्लासरूप प्राग्वदाह - अथेति । विहरतामित्यस्याग्रेऽपि यथायथमनुषङ्गः । भवेति । संसारामिदग्धैरित्यर्थः । पुनस्त्वर्थे ॥ इति रसगङ्गाधरमर्मप्रकाशेऽवज्ञाप्रकरणम् ॥

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533