Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
५०७ अत्रेदं बोध्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिभिरिति यो विषमस्य भेदः । प्राक्प्रत्यपादि सोऽनेन विषादनेन ग्रस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु विषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्यः-न विषमस्येति यदुक्तं तत्कस्य हेतोः । विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननुरूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात्, भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्धलाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवोचाम । तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः ।
इति रसगङ्गाधरे विषादनप्रकरणम् । अथोल्लास:--- अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ।
तच्च गुणेन गुणस्य, दोषस्य वा, दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि
अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा
त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं वर्णितम् ।
'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥' अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्दविमुखयोनयनयोः श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वाप्राग्वदाह-अथेति । व्यतिकरः संबन्धः । पवमानो वायुः । न्यक्कारो धिक्कारः ।
For Private And Personal Use Only

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533