Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 521
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । यसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गों भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननुरूप एवेति वाच्यम् । एवं तर्हि तक्रविक्रयकर्तृत्वेनैवाज्ञानित्वलाभे वराटिकालोभरूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । यादृशवाञ्छितसिद्धयर्थ यत्नः क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव । 'तद्दर्शनोपायविमर्शनार्थ मया तदालीसदनं गतेन । तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ।।' अत्र तदर्शनोपायसिद्ध्यर्थ प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तदर्शनलाभः । यत्तु 'चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया । __ सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ।' इति पद्यम् 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षणद्वितीयप्रभेदं लक्षयित्वोदाहृतं कुवलयानन्दकता । तदसत् । वाञ्छितादधिकार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभरुतसंतोषानतिशये प्रहर्षणशब्दयोगार्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छितादधिकप्रदत्वेन दातुरुत्कर्षों भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वाञ्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यात्तद्युक्तम् । इति रसगङ्गाधरे प्रहर्षणप्रकरणम् । गुणत्वम् (?) । विमर्शनं विचारः सिद्धिर्वा । वाञ्छितादिति । यत इत्यादिः । पदं स्थानम् । चिन्त्यमिदम् । चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्वयङ्गयदाट्याचकवृत्तान्ते पर्यव. सानेन संतोषातिशयस्य दुर्वारत्वात् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533