Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 496
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। 'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' अत्रापि कुचत्वेनैकीळते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभावः । यत्तु-- 'बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ॥' इति कुवलयानन्दकृता विकासपर्यायो निजगदे तच्चिन्त्यम् । एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् । 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहृते च तथैव दृष्टत्वाच्च अस्मिन्नलंकारलक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः । यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति । स चायुप्मता नोङ्कित एव । इदं तु बोध्यम्--- 'प्रथमं चुम्बितचरणा जवाजानूरुनाभिहृदयानि । आश्लिप्य भावना मे खेलतु विष्णोर्मुखान्नशोभायाम् ॥' अत्र न तावत्पर्यायः । उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्षणात् । यतोऽत्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम्, न तु मजत्विति । तथा 'पूर्व नयनयोलमा ततो मग्ना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥' प्राग्वदाह -अथेति । वस्तुती द्वित्वादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या ऋमिकत्वमिति शेषः । सारालंकार उचित इति । अत्रेदं चिन्त्यम् --भेदप्रतीतो सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात् । अत्र हि रागयोः श्लेषेणाभेदाध्यवसायात् । वर्धमानकरूपालंकारान्तरस्वीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाधित्यानेन संग्रहस्यैवोचितत्वाच्च । अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम् । इत्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533