Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 507
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । 'समुत्पत्तिः पद्मारमणपदपद्मामलनखान्निवासः कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासङ्गः पतितजननिस्तारणविधेर्न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥' अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीयाः । 'पाटीरनुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणाल कोमलतनुः प्राणान्कथं रक्षतु ॥' अत्रापि त्रयोऽपि जीवननाशार्थमापतन्तोऽरमणीयाः । ४९१ 'जीवितं मृत्युनालीढं संपदः श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥' अत्र जीवितादयः स्वाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषणमाहात्म्याच्च रमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः । रमणीयारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः । सहचरभिन्नत्वदोषापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति । 'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ॥' शरीरादयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारम - णीयानां च विषमालंकारेण च, संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्तभेदत्वापत्तेरिति वाच्यम् । 'समुत्पत्तिः पद्मारमण -' इत्यत्र, 'पाटीरनु For Private And Personal Use Only तिभटः शत्रुः शिवः । पाटीरद्रुश्चन्दनवृक्षः | हालाहलरूपं कूजितम् । भेदकं विशेषणम् । समुच्चये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुच्चयप्रकरणम् ॥

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533