Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 516
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अत्रापि सुधासमुद्रादिसंबन्धादुक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालंकारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्यास्तां तावत् । इति रसगङ्गाधरे प्रौढोक्तिप्रकरणम् । अथ ललितम्प्रकृतर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्यवहारसंबन्धो ललितालंकारः। 'आददानः परद्रव्यं विषं भक्षयसि ध्रुवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति । यथा 'क्क वा रामः कामप्रतिभटललाटंतपबल___ स्तव कामी वीरा रणशिरसि धीरा मखभुजाम् । दिधक्षोस्त्रैलोक्यं प्रलयशिखिनः पद्ममथन प्रगल्भैः प्रालेयैः प्रशममसि कर्तु व्यवसितः ॥' अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकममता देवानामग्रे धारैः कुम्भकर्णादिभिर्वीरैर्भगवतो रामस्य पराभवमिच्छन्नित्येवं कण्ठरवेण तादृशेच्छारूपं प्रकृतव्यवहारं विषयमनुक्त्वैव तादृशप्रालेयकरणकतादृशाग्निप्रशमनव्यवसायरूपोऽप्रकृतव्यवहारो विषय्युपात्तः । विषयोपादाने तु निदर्शनैव । यथा वा'नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा । आकर्षता चन्दनशाखिशाखां प्रबोधितोऽयं भवता फणीन्द्रः ॥' अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्तं तदीयक्रोधोद्बोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम् । न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम् । तत्र हि पदार्थन सूनुयुधिष्ठिरः । आस्तां तावदिति । चिन्त्यमिदम् । मिथ्यात्वकल्पनकृतचमत्कारस्यापहवनीयत्वेन पृथगलंकारतासिद्धेः । किं च कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदभाज इति तव सिद्धान्तात्सत्यत्वप्रतीत्यर्थे कल्पितस्याप्यर्थस्य तत्कल्पितत्वाभावेन शब्दमात्रादलंकारत्वासंभवादिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रौढो. क्तिप्रकरणम् ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533