Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 512
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । 'किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । तद्यदि पतति हुताशे तदा हताशे तवाङ्गवण स्यात् ।।' अत्र पूर्वार्धोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयाधै प्रतीपं बालाङ्गवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमातुं स्वप्नेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते । 'माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता ___ रत्नानामहमेक एव भुवने को वापरो मादृशः । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो * दुग्धाब्धे भवता समो विजयते दिल्लीधरावल्लभः ॥' 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥' उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि । पञ्चमो यथा 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः । कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥' अत्र कथं शणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तरन्यासोऽप्यमुमेवार्थ पुष्णाति । तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः । पञ्चमस्त्वनुक्तवैधम्य व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्याद्ये प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद्यं प्रतीपं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533