Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 513
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ४९७ प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी. भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात्, स्कारोऽपि तथा स्यात् । यथा'एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥ अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेनाविवक्षणात् । किं तु तदनुतापनाशः । एवं च फलवैलक्षण्यमात्रेणालंकारान्तरत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा । किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्टथगलंकारत्वं स्यात्, न प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्त्रग्रस्तत्वादलक्षणमेवेत्यसलदु. क्तम् । उपमालक्षणं तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य । इति रसगङ्गाधरे प्रतीपप्रकरणम् । अथ प्रौढोक्तिःकस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतधर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः । संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा । तत्सुवर्णम् । अकुप्तेतिन्यायेनाह-प्रतीपेति । लक्षणाभावादिति । चिन्त्यमिदम्। तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणत्वसंभवात्। स च वाच्यो व्यङ्गयो वेत्यन्यत् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतीपप्रकरणम् ॥ ६३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533