Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 506
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। युगपदिति क्रमव्यावृत्त्यर्थम्, न त्वेकलक्षणप्रतिपत्यर्थम् । तेन किंचिकालभेदेऽपि न समुच्चयभङ्गः । स तावहिविधः-धर्मिभेदधम्क्याभ्याम् । धयॆक्येऽपि दैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये, कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नाद्ययोर्भेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारमणीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कचम् । समाधौ हि एकेन कार्य निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिस्तु समुच्चयप्रभेदे यत्रैककार्य संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि 'प्रादुर्भवति पयोदे कजलमलिनं बभूव नभः । रक्तं स पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥" 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।' अत्राद्ये गुणानां द्वितीये क्रियाणां च योगपद्येन भिन्नधर्म्यन्वयः । 'आताम्रा सिन्धुकन्याधवचरणनखोल्लासिकान्तिच्छटाभि ज्योत्स्नाजालै टानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । स्वाभाव्यादच्छमुक्ताफलरचितलसद्गुच्छसच्छायकाया पायादायासजालादमरसरिदघवातजातश्रमान्नः ॥' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता ___ स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना। क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ।। अत्राद्ये गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्यपि हरिचरणनखसंसर्गसमये नास्तिहरजटासंसर्ग इति रक्तपीतवर्णयोर्योगपद्यस्यासंभवः, तथापि साहजिकश्चैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः । प्राग्वदाह-अथेति । सिन्धुकन्याधवो लक्ष्मीपतिः । तयो रक्तपीतवर्णयोः । प्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533