Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
काव्यमाला।
- अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थी प्रश्नपूर्विका च । तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रं
देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य
त्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः ॥' अत्र मात्रादिपदैस्तीर्थत्वादिव्यावृत्तिः प्रतीयत इति शाब्दी शुद्धा । 'किं मित्रमन्ते सुकृतं न लोकाः किं ध्येयमीशस्य पदं न तोकाः ।
किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥' अत्र शाब्दी प्रश्नपूर्विका चेति प्राचां मतम् । अन्ये तु 'व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व एव हेत्वलंकारः, अन्यथा हेतुमात्रम् । अतो भेदद्वयमेवास्याः' इ. त्याहुः । अपरे तु "व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । 'पञ्च पञ्चनखा भक्ष्याः , समे यजेत, रात्सस्य' इत्यादावपि तदापत्तेः । किं तु कविप्रतिभानिर्मिता या तादृशव्यावृत्तिस्तस्याः । यथा-'यस्मिन्शासति वसुमतीपाकशासने महानसेषु संतापः, शरधिहृदयेषु सशल्यता, मञ्जीरेषु मौखर्यम्, भेरीषु ताडनम्, कामिनीनां कुन्तलेषु कौटिल्यम्, गतिषु मान्द्यम्' इत्यादौ । अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकत इति तहारा तप्रतियोगिकव्यावृत्तिनिर्मिता । एवं च 'सेवायां यदि साभिलाषमास' इत्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालंकारः । व्यारत्तेर्वास्तवत्वेन कविप्रतिभानपेक्षणात् । 'किं तीर्थ हरिपादपद्मभजनम्' इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते' इत्यत्रापि परिसंख्यापत्तेः । 'किं शास्त्र' इ. त्यंशे तु परिसंख्यामात्रम् । 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रम्' इत्यत्रापि परिसंख्यैव शुद्धा । प्रागुक्ताद्धेतोरनार्थत्वात् । तस्मात् 'महानसेषु संतापः' इत्यादिकमेवास्या उदाहरणम्" इत्याहुः ।
इंति रसगङ्गाधरे परिसंख्याप्रकरणम् । एवं सति पूर्वविरोधं परिहरति-प्राचीनेति ॥ इति रसगङ्गाधरममप्रकाशे परिसंख्याप्रकरणम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533