Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४७३ त्यत्रोभयांशविशेषो ग्राह्यः । तेनोदाहरणालंकृती नातिप्रसङ्गः । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्प्टथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽर्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेषः, उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात् । तत्रापि विशेषस्याल्पत्वात् । किं चोदाहरणालंकारो न प्राचां मनःसंतोषमावहति । उपमयैव तैस्तस्य निरासात् । अतस्तेषां विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विनान्यत्र प्रवेष्टुमीष्ट इति । अत्र हि प्रतिज्ञाहेत्ववयवयोरिवाकाङ्क्षाक्रमप्राप्त समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । नात्र समर्थकं समानुपपत्त्युत्थापितायामाकाङ्कायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थ कविभिस्तस्याभिधानात् । एवं च वैपरीत्येऽपि न दोषः । यथा'दीनानामथ परिहाय शुष्कसस्यान्यौदार्य वहति पयोधरो हिमाद्रौ ।
औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादशां विवेकः ॥' __ अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष उत्तरार्धगतो मामान्ये प्रस्तुते समर्थकः । एवमप्रकृतैः प्रकृतस्य समर्थनमुदाहृतम् । प्रकृतेन प्रकृतसमर्थनं यथा--
'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु ।
हित्वान्तिकं सरोजिन्याः पश्य याति न पट्पदः ॥' जलक्रीडायां दूरं गच्छेति वदन्तीं कामिनी प्रति नायकस्योक्तिरियम् । अस्यां वृत्तान्तद्वयमपि प्रकृतम् । क्वचित्प्रकृतेनाप्रकृतस्य समर्थन संभवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति । आपाततस्तु तस्याप्रकृतत्वम् । सर्वथैवाप्रकृतस्य समर्थनाप्रसक्तेः । यथा
'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा ।
यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥' प्राग्वदाह-अथेति । कविः शृणोतीति । कविनिबद्ध प्रमात्रन्तरनिष्टा ह्यनु. मितिरनुमानालंकारस्य विषय इत्यादिना कायलिङ्गालंकारे दत्तोत्तरत्वादिति भावः ।
For Private And Personal Use Only

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533