Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 492
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७६ काव्यमाला । पूर्वत्वालिङ्गलिङ्गिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति विशेषः। कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव । इह यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र मन्ये शङ्के अवमि जाने इत्यादिपदानामनुमितिबोधकत्वम्, यत्र तु साहश्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन मन्मथामात्यमायान्तमहं मन्ये महामहम् । चक्षुश्चमत्कृति धत्ते यदहो किल कोकिलः ॥' इत्यादावनुमैव, नोत्प्रेक्षा । अत्रेदं बोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम् । यथा 'कोकाः सशोकाः' इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् । यथा 'अम्लायन्-' इति पद्ये 'तहावी तव देव संप्रति महोमार्तण्डविम्बोदयः' इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम् । यथा 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपत्तेः । लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरनापत्तेः । अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमानत्वध्वन्यमानत्वानां साम्राज्यम् । ल्युटश्च करण इव भावेऽपीति । इति रसगङ्गाधरेऽनुमानप्रकरणम् । अथ यथासंख्यम्-- उपदेशक्रमेणार्थानां संवन्धो यथासंख्यम् । पदार्थानतिरत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च रादिसाधारणम् । शङ्कते-वक्ष्यति । इह अनुमानालंकारे । पुनस्त्वर्थे । उभयति भावः । भावेऽपीति । विधिरिति शेषः ।। इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम् ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533