Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 487
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । अथार्थान्तरन्यासःसामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदर्थान्तरन्यासः। ___ समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थ मेवेति दृढप्रत्ययः । निश्चय इति यावत् । तत्र प्रकृतयोः सामान्यविशेषयोः समर्थ्यत्वम्, अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधाभ्यां द्विविधम् । उदाहरणम् 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।। कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ॥' अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौचित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्वमपि तादृशश्रवणमित्रसाधनमिति बुद्ध्या श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्यते । तच्च संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च । __'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् ।। मूर्छा गतो मृतो वा रोगानपहरति पारदः सकलान् ॥' अत्र विपद्गतसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूच्छितमृतपारदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति । तथा 'अहन्नेको रणे रामो यातुधानाननेकशः । असहाया महात्मानो यान्ति कांचन वीरताम् ॥' अत्र विशेषस्य सामान्यं समर्थकम् । वैपरीत्ये तु सामान्यस्य विशेषः। 'असहाया-' इत्याद्युत्तरार्धमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते बलोज्झिताः' इतिकृते विशेषो वैधम्र्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रदोषः । अत्र मग्नं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । तादृशक्रियाकर्मीभूतेन्दीवरादयो दैवनिष्ठत्वात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वोपपादकाः । मजितत्वाद्युपपादकानि त्वनेत्रसमानकान्तीत्यादिकानीति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे काव्यलिङ्गप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533