Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 479
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्याभिनत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् । 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥' इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्यान्यथानुपपत्त्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यते । सा च वृत्तिसंबन्धेनार्थविशिष्टशब्दज्ञानत्वेन शब्दविशिष्टार्थोपस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रष्टत्तिनिमित्तप्रकारकबोधत्वेन तु वृत्तिसंबन्धेन वटविशिष्टपदज्ञानत्वादिना च विशेषतोऽपरः कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकतति न कश्चिद्दोषः । यहा वृत्तिसंबन्धेन घटादिविशिष्टपदज्ञानत्वेन घटादिपदघटत्वोभयप्रकारकघटादिविशेप्यकोपस्थितित्वेन च कार्यकारणभावः । पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाब्दबोधेऽपि यदभानम् । अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय । एतदभि• संधायैवोक्तम्-'न सोऽस्ति' इत्यादि । इति रसगङ्गाधरे कारणमालाप्रकरणम् । अथैकावलीसैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली । सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां दैविध्यम् । स्वसंबन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेप्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम् 'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः । परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः॥' कारणमाला स्पष्टा ॥ प्राग्वदाह-अथेति । परानपेति । परानपकार इत्यर्थः । तेषां शृङ्खलावयवानां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533