Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 478
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६२ काव्यमाला । 'स्वर्गापवर्गों खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तक पादभक्तिः ॥' इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारणमाला युक्ता । यदा तु कार्योक्तिस्तदा तस्य कार्य तस्यापि कार्यमिति, तत्कस्यचित्कार्यं तदपि कस्यचिदिति वा युक्ता । सर्वथैव यः शब्दः कार्यकारणतोपस्थापक आदौ प्रयुक्तः स एव निर्वाह्यः । एवं क्रमेण निबन्धनमाकाङ्क्षानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्रम स्यात् । यथा प्राचीनानां पद्यम्'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाङ्क्षोदेति । कारणस्यैव श्रुतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्य पुनरस्य किमिति क्वचिदाकाङ्क्षा तु कार्यत्वकारणत्वयोः संबन्धिपदार्थत्वात्कारणश्रुत्युत्तरमेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया । न त्वसौ सार्वत्रिकी । एवं च विनयः कस्य कारणमित्याकाङ्क्षाया गुणप्रकर्षों विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति तथापि न साक्षादित्यहृदयंगममेव । तथा गुणप्रकर्षा त्किमाप्यत इत्याकाङ्क्षायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्वविरहादोषः स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथा चोक्तम्-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाढते' इति । तत्तच्छब्दस्य विशिष्ट श्वार्थः स्वरूपेणाभिन्नोऽपि विशेपणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत् । ननु कुण्डगोलकादिपदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्नाकारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533