Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 484
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अत्र शिशुत्वं शुद्धकसुबन्तार्थोऽपराधक्षमाकरणे हेतुः । तथा दिव्यमहिमत्वमचिन्त्यमाहात्म्यं सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादिचित्तदुप्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ । तादृशस्तवे च विशङ्गलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् । 'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः । इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥' अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृकावज्ञापुरपथनयनरूपः सुबन्तार्थविशेषितस्तिङन्तार्थ उपपादकः । 'विश्वास्य मधुरवचनैः साधून्ये वश्चयन्ति नम्रतया ।। तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥' अत्रापि एथिवीविवेकनाशोपपादने तिङन्तार्थस्य धारणस्य सुबन्तार्थविशेषितस्य तस्यैव जनधारणात्मनो वा असामर्थ्यात्साधुवञ्चनरूपपूर्ववाक्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्परम्परया बोध्यम् । एते च भेदाः प्राचीनकल्पितपदार्थवाक्यार्थभेदद्वयवच्चातुर्यमात्रेण कल्पिताः, न तु वैचित्र्यविशेषेण । अथानुमानादस्य को विशेषः । ननु व्याप्यत्वपक्षधर्मत्वाभ्यां ज्ञायमानमेवार्थसाधकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्यलिङ्गमिति विशेष इति चेत्, न । उपपादकं हि सत्यां युक्तौ । सा तु सति व्यभिचारपक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति । यथा 'विनिन्द्यान्युन्मत्तैः' इत्युदाहृतपद्ये ताहशश्रमाभाव उत्कर्षव्यभिचरितो भागीरथ्यत्तिति ज्ञाने जात्वपि न सवोत्कर्षः सेडुमीष्टे । सेहमीष्टे च सर्वोत्कर्षाव्यभिचरितो भागीरथीवृत्तिश्चेति ज्ञाने । एवं हेतोः सर्वत्राप्युपपाद्याव्यभिचरितज्ञान एवोपपत्तिः । अन्यथा तु इदमेवमनेवं वा स्यादिति संदेह एव । तस्मादुपपत्तिसमर्थनादिविलक्षणशब्दप्रयोगा आलंकारिकाणामनुमितिसरणिमेवाभिनिविशन्ते । न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति वाच्यम् । स हीन्द्रियसंनिकर्षाभा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533