Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 477
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । एवं श्लेपातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिताः, काञ्चनस्येव कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्बहु व्याकुली स्यादिति परस्परच्छायामात्रानुसारिणो भित्रविच्छित्तयो भिन्ना एवेत्यपरे । इति रसगङ्गाधरे व्याघातप्रकरणम् । अथ शृङ्खलामूला अलंकाराःतत्र, पतिरूपेण निवद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्, उत्तरोत्तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं शृङ्खला । तच्च कार्यकारणताविशेषणविशेप्यतादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नास्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिप्वनुप्राणकतया स्थितोऽप्यभेदांशः समानधमाशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । नहि विशेपनिर्मुक्तं सामान्यमस्ति येन विविक्तो विपयः स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः । मैव शृङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला । तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका । पूर्व पूर्व कार्य परं परं कारणमित्यपरा । यथाक्रमेण यथा--- 'लभ्येत पुण्यैगृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥' गाधरमर्मप्रकाशे व्याघातप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533