Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 480
________________ Shri Mahavir Jain Aradhana Kendra ४६४ www. kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir अत्र स्थापकम् । 'नार्यः स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम् । ते परे यैर्नहि साधुताश्रिता न साधुता सा नहि यत्र माधवः ॥ ' अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं ग म्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः । 'धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥' इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते । अस्मिश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपः स्यात्तदायमेव मालादीपक शब्देन व्यवह्नियते प्राचीनैः । तथा चोक्तम् — 'मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्' इति । तत्र मालाशब्देन शृङ्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थ सर्वोपकारकक्रियादिशालिनी शृङ्गलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेपोऽयमिति न भ्रमितव्यम् । तस्य सादृश्यगर्भतायाः सकलालंकारिक सिद्धत्वात् । इह च शृङ्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन 'दीपकैकावली - योगान्मालादीपकमिप्यते' इति यदुक्तं कुवलयानन्दकृता तद्रान्तिमात्रविलसितमिति सुधीभिरालोचनीयम् । I इति रसगङ्गाधर एकावलीप्रकरणम् । पदार्थानाम् । तद्भान्तिमात्रेति । तत्रापि दीपकशब्दस्योपकारकपरत्वम् । अत एवं तैर्दीपकप्रकरणात्पृथगेकावल्युत्तरमुक्तोऽयमित्येतदुक्तिरेव भ्रान्ता ॥ इति रसगङ्गाधर ममं - प्रकाश एकावलीप्रकरणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533