Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विप्राणामहं भक्तः, देवदत्तस्य पुत्रः स्वमातृभक्तः इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीतिः । अत एव-'निजतनुःस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः' इत्यत्र 'दण्डपादगता तनुः प्रतीयते । भवानीगता तु सा अपेक्षिता' इति व्युत्पन्न शिरोमणिभिर्मम्मटभट्टैः काव्यप्रकाशेऽभिहितम् । न चेदं श्रुतिकाटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम् । शब्दव्युत्पत्तौ काव्यस्यानन्तर्भावात् । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च । किं च परस्परोपकारो हि स्वव्यधिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटकः, न तु स्वसमानाधिकरणतत्साध्योऽपि । तत्र हि तुपारशिशिरीकरणन्यायेनान्यव्यापारस्यानावश्यकतया चमत्कारिताविरहात् । इह हि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थ प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सहृदया विचारयन्तु । इति रसगङ्गाधरेऽन्योन्यालंकारप्रकरणम् । अथ विशेषालंकारःप्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः । यच्चैकमाधेयं परिमितयत्किचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः। प्राग्वदाह-अथेति । अनुपहसनीयतापत्तेश्चेति । अत्रेदं चिन्त्यम्-स्वशव्दादयो यद्विशेषणघटकास्तद्विशेष्यान्विततद्विशेष्येतराबोधका इति व्युत्पत्तेः समभिव्याहृतपदार्थे तद्बोधकत्वव्युत्पत्तेरेव चानुभवबलेन स्वीकारः। नहि पथिकस्तद्विशेष्यान्वित इति । अनुदाहरणमेवैतदिति । स्वस्वोपकारसत्त्वेऽपि परस्परोपकारोऽप्यस्त्येव । स न चमत्कारीति तु रिक्तं वचः । किं च यथातथा शब्दव्यत्यासेन पूर्वोत्तरार्धव्यत्यासेन चास्य पुनः पाठे परस्परोपकारस्यैव चमत्कृतस्य प्रतीतेस्तदभिप्रायेणोदाहरणत्वमेव । अपि च प्रकरणादिसहायेनापि परस्परोपकारप्रतीतिश्चमत्कृतैवेति चिन्त्यमिदमिति दिक्॥ इति रसगङ्गाधरममप्रकाशेऽन्योन्यालंकारप्रकरणम् ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533