Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास-नाटकोद्धारः-प्रथमोऽङ्कः । कः पुनरस्मिन् राज्याभिषेकमङ्गले ऋतुः समुचितो गातुम् ? । (विमृश्य ) हुं ज्ञातम् - वसन्तः । तथा हि
ऋतुषु वसन्तः करणेषु लोचनं कामिनी च विषयेषु ।
दयितेषु जीवितव्यं विद्या च कलासु खलु सारम् ॥ ६॥ [ रामप्रवासकाले दशरथं प्राणसङ्कटे पतितं श्रुत्वाऽमात्यसुबुद्धेविषादवाक्यम्-] न्याय ! स्थानमुपैहि किञ्चिदपरं, सौजन्य ! पुण्यक्षयो
जातस्ते, गुरुते ! हताऽसि, विनय ! प्राप्तोऽसि दीनां दशाम् । आधारो भवतामयं दशरथक्षोणीधरो दैवतः कैकेयीकुलिशेन हन्त ! पतता निर्मूलमुन्मूल्यते ॥७॥
[कैकेयीवाक्यं दशरथं प्रति-] 'जइ सचं सचरई वरेण भरहस्स तो सिरिं देहि । सोलस वरिसाणि पुणो वणवासं रामभद्दस्स ॥ ८॥
[मूर्छाविरामानन्तरममात्यं प्रति दशरथवाक्यम्-] न रामः स्वैः स्तुत्यैर्नियतमभिरामः सुतगुणै
रुताहो ! व्यक्तं मे विशदगुणगुह्यं न हृदयम् । यदेतत् कैकेयीवचनमुपकापि यदहं मरुन्मैत्रीहार्येन तनुतनुखण्डैर्विदलितः॥९॥
[राजानं प्रति अमात्यवचः-] इतः सत्योच्छेदो रघुकुलकलङ्कप्रथमभूः
सुतस्य श्लाघ्यस्य प्रवसनमितोऽकीर्तिपटहः । अकाण्डे तत् किञ्चित् प्रभवति विधेयं विधिवशात्
न चाऽऽदातुं हातुं न च यदिह शक्यं कथमपि ॥ १० ॥ राजा-देवि ! किमिदानीं दशरथस्य कृत्यम् ? । कौशल्या-'रामभद्दपवासणं । राजा-यद्ययमों देव्यापि सम्मतस्तदानीम्निस्त्रिंशते ! भव पुरो, व्रज साधुवाद !,
दाक्षिण्य ! मुञ्च, विरम प्रियवादगर्व!। 1) यदि सत्यं सत्यरतिः वरेण भरतस्य तत् श्रिय देहि ।
षोडश वर्षाणि पुनः वनवासं रामभद्रस्य ॥ ८ ॥ 2) रामभद्रप्रवासनम् ।
१ प्रसिद्धैः। २ गुणपाक्षिकम् । ३ वातसंसर्गोत्पाद्यैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62