Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 35
________________ रघुविलास-नाटकोद्धारः-चतुर्थोऽङ्कः । [इति भणितानन्तरं रावणश्चिन्तयति-] केयं कालकूटवृष्टिः? ददाति रागिणी प्राणान् , आदत्ते द्वेषिणी पुनः। रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियाः॥१२॥ अन्यत् शरनिकरं वर्षत्यपि भगवति मदने घनेऽपि च प्रेम्णि । प्रायेण स्त्री कथमपि धैर्य न जहाति पुरुष इव ॥ १३ ॥ सीता-'अवि य जीवंती जइ मं अजउत्तो पिच्छे ता सिढिलपिम्मो भवे । यतः'जम्मि विउत्ताई पुणो जीवंताई मिलंति मिहुणाई। पिम्मम्मि तम्मि छेया किं कह वि कयायरा हुंति ? ॥१४॥ रावणः-अयि स्मरनगरनागरिके! विष्टपदृष्टिचकोरीचन्द्रिके! शृङ्गाररसभृङ्गारकल्पामनल्यार्थामेतामेव गाथां भूयोऽप्यभिधाय सुधासारेणाभिषिञ्च श्रवणोत्पलकाननं दशास्यस्य। (सीता सरोषमधोमुखी तिष्ठति ।) रावणः-( सप्रमोदम् ) कलकण्ठ ! देव्या वक्रमलाञ्छनस्तुलयति श्वेतयुतिः पार्वणो, वाचा पाकमपाकरोत्यलवणोदन्वत्प्रबुद्धा सुधा। अम्भोजानि दृशोरनश्वरविकाशानि श्रियं बिभ्रते, कम्बुः कण्ठकलां प्रभुः कलयितुं कौटिल्यवन्ध्योदरः ॥१५॥ (सीतां प्रति) हरौ चरति चारकाश्रमतपखितां तां शची, भुजिष्यदयितेति यः परिरिरंसुमप्यस्तवान् । स्वयं स दशकन्धरो विनयवामनैराननैः स्तुवन् सुदति! याचते वचनहन्तकारं त्वयि ॥ १६ ॥ सीता - ( सरोषं रावणं प्रति) 'पडिहदो सि भयवईणं रघुकुलदेवयाणं पभावेण रावणः - मुग्धासि दुग्धमुग्धविलोचने! 1) अपि च जीवन्तीं यदि मां आर्यपुत्रः प्रेक्षेत तदा शिथिलप्रेमा भवेत् । 2) यस्मिन् वियुक्तानि पुनः जीवन्ति मीलन्ति मिथुनानि ।। प्रेम्णि तस्मिन् छेकाः किं कथमपि कृतादराः भवन्ति ? ॥ १४ ॥ 3) प्रतिहतोऽसि भगवतीनां रघुकुलदेवतानां प्रभावेण । १ अक्षारसमुद्रोत्पन्ना। २ कर्मकरप्रियेति । ३ भिक्षाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62