Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 58
________________ रघुविलास नाटकोद्धारः-अष्टमोऽङ्कः । कृपाणः क्षुन्दानः पुनरयमरातीनपघृणः शृणिनिस्त्रिंशानां जगति भवितुं कः परिवृढः ? ॥ १२ ॥ रामः-( सकरुणमिव ) अरे पारदारिक ! वीरसारमेय! चापाचार्यकमेष लक्ष्मणभुजः सन्सन्य नाडिन्धमै- ... र्यावन्नास्थिघनाः कषत्युपनवाः कण्ठस्थली सायकैः। तावन्मुश्च पिशाचिकां रणरसोदन्यां वराकी सुत- . व्यापत्तिव्यसनानभिज्ञनयना सन्तिष्ठतां कैकसी ॥ १३ ॥ रावणः -- (सरोषम् ) अरे म्लेच्छाधम ! दशकन्धरस्य मातरमधिक्षिपसि? । गृहाण शस्त्रम् । इदानीमेष न भवसि । " (नेपथ्ये) विरम विरम बन्धो ! साहसिक्यादमुष्माद् विमृश रघुषु कस्ते शस्त्रहेवाकपाकः । अमरनगरलक्ष्मीलुण्टनाख्यम्भविष्णुः क्षितिवलयविहारी हार्यते किं प्रतापः ? ॥ १४ ॥ रावणः-कथमयं बान्धवाधमो दुरात्मा बिभीषणो मां दशकन्धरमनुशास्ति ? । __(पुनरुच्चैः स्वरम् ) आः पाप ! ज्ञातिहत्यानिचुलितवदन ! भ्रातृबन्धोः खवंश प्रभ्रंशस्थूललक्ष ! श्रुतिषु मम गिरः पांशुराः किं तनोषि? । रे रे ! सोदर्य ! लज्जाज्वरविधुरभुजो रावणस्त्वां तितिक्षुज्वालाजिबालधारस्त्वयि पुनरनुजे चन्द्रहासो नृशंसः ॥ १५॥ (आकाशे) अलं संरम्भेण त्यजत समराडम्बररुजं यदर्थ क्लेशोऽयं तदभवदपन्थाः खलु दृशाम् । रामः-( ससम्भ्रमम् ) वत्स लक्ष्मण ! किमिदम् । लक्ष्मणः-देवीवागियम् ? । राम:-किमर्थमयमस्माकं क्लेशः । लक्ष्मणः-सीतार्थम् । रामः-तत् किं सीता दृशामपन्थाः । लक्ष्मण:- स्फुटं नावगच्छामि।। [एतान्येव वाक्यानि रावणस्य प्रहस्तं प्रति ।] . . १ भकुशः । २ श्वा। ३ आचार्यकर्म । ४ बाणैः। ५ आच्छादित । ६ सहिष्णुः । रघु० ना०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62