Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 60
________________ ४३ रघुविलास नाटकोद्धारः - अष्टमोऽङ्कः । [ राक्षसेन माल्यवतः कथितं यद् रामेण रावणश्चक्रावशेषायुधः कृतः।] माल्यवन्तः-(सखेदम् ) न वीरः पौलस्त्यात् पर इति कृपाणवणमयी प्रशस्तिः पोलोमीपतितनुनिषण्णा विवृणुते । असावप्यामोति व्यसनमधियुद्धं यदि तदा श्रियो यातायातप्रकृतिरचिकित्स्या विजयते ॥ २२ ॥ (नेपथ्ये) अक्षतस्यैव सौमित्रेश्चक्रं यत् करमागमत् । तज्जाने दशकण्ठस्य कण्ठच्छेद उपस्थितः ॥ २३ ॥ (पुनराकाशे ।) मध्येऽम्भोधि बभूव विंशतिभुजं रक्षो दशास्यं पुन स्तत्पातालमही त्रिविष्टपभटांश्चक्राम.दोर्विक्रमैः । मर्त्यस्तस्य मृणालतन्तुतुलया चिच्छेद कण्ठाटवीं वैराग्यस्य च विस्मयस्य च पदं रामायणं वर्तते ॥ २४ ॥ माल्यवन्त:-(सास्रम् ) क च वर्गाधीशस्मयविजयचक्षुर्दशमुखः ? ___ क च क्रीडाकारी शबरपृथुकाभ्यां परिभवः ।। न यो वाचः पात्रं भवति न दृशोर्नापि मनसस्तमप्यर्थं क्रुद्धो हतविधिरकाण्डे घटयति ॥ २५ ॥ (नेपथ्ये) मन्दं मन्दमयं जयन्तविहितालम्बो हरिः शृङ्खला व्याब्रिह्मांहिरुपैति राघवमभि ब्रीडानमत्कन्धरः। भूयोऽपि त्रिदिवं नयन्ति मुदिताः वासिन्धुरोच्चैःश्रव: वर्गास्त्रा-भ्रमु-कल्पपादप-निजप्रेयस्विनीः स्वर्गिणः ॥ २६ ॥ निर्माय प्रतिवीरविक्रमकथावन्ध्यां त्रिलोकीमिमां वक्षश्चारकचारिणीं भगवती साम्राज्यलक्ष्मी व्यधात् । स्त्रीहेतोश्च चकार सगरमखे खैर्दक्षिणां मूर्द्धभिः सार्द्ध यः स पुनर्महाय॑महिमा कोऽन्यो दशग्रीवतः १ ॥ २७॥ १ अप्रतीकार्या। २ रामस्य अयनं चरितलक्षणं रामायणम्। ३ इन्द्रपुत्रः । ४ सङ्कुचितपदः । ५ वज्रम् । ६ ऐरावतकलत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62